SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १२८ ८.१२ अङ्गार-ज्वाला-लातार्चिर्मुर्मुर- शुद्धाग्निजातिनामादि । वायुकायिकजातिनामानेकविधम् । तद्यथा । उत्कलिका-मण्डलिका-झञ्झकाघनसंवर्तकजातिनामादि । वनस्पतिकायिक- जातिनामानेकविधम् । तद्यथा । कन्द-मूलस्कन्ध-त्वक्-काष्ठपत्र- प्रवाल-पुष्प-फल- गुल्म-गुच्छ-लता-वल्ली-तृण-पर्वकायशेवाल-पनक- वलक-कुहन- जातिनामादि । एवं द्वीन्द्रियजातिनामानेकविधम् । एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिय- जातिनामादीन्यपि ॥ शरीरनाम पञ्चविधम् । तद्यथा । औदारिकशरीरनाम वैक्रियशरीरनाम आहारकशरीरनाम तैजसशरीरनाम कार्मणशरीरनामेति ॥ अङ्गोपाङ्गनाम त्रिविधम् । तद्यथा । औदारिकाङ्गोपाङ्गनाम वैक्रियशरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम । पुनरेकैकमनेकेविधम् । तद्यथा । अङ्गनाम तावत् शिरोनाम उरोनाम पृष्ठनाम बाहुनाम उदरनाम पादनाम ।। उपाङ्गनामानेकविधम् । तद्यथा । स्पर्शनाम रसनाम घ्राणनाम चक्षुर्नाम श्रोत्रनाम । तथा मस्तिष्ककपालकृकाटिकाशङ्खललाटतालुकपोलहनुचिबुकदशनौष्ठधूनयनकर्णनासाधुपाङ्गनामानि शिरसः । एवं सर्वेषामङ्गानामुपाङ्गानां नामानि ॥ जातिलिङ्गाकृतिव्यवस्थानियामकं निर्माणनाम || सत्यां प्राप्तौ निर्मितानामपि शरीराणां बन्धक बन्धननाम । अन्यथा हि वालुकापुरुषवदबद्धानि शरीराणि स्युरिति । बद्धानामपि च संघातविशेषजनकं प्रचयविशेषात्संघातनाम दारुमृत्पिण्डायःसंघातवत् ॥ संस्थाननाम षड्विधम् । तद्यथा । समचतुरस्रनाम न्यग्रोधपरिमण्डलनाम साचिनाम कुब्जनाम वामननाम हुण्डनामेति ॥ संहनननाम षड्विधम् । तद्यथा । वज्रर्षभनाराचनाम अर्धवज्रर्षभनाराचनाम नाराचनाम अर्धनाराचनाम कीलिकानाम सृपाटिकानामेति ॥ स्पर्शनामाष्टविधं कठिननामादि ॥ रसनामानेकविधं तिक्तनामादि ॥ गन्धनामानेकविधं सुरभिगन्धनामादि ॥ वर्णनामानेकविधं कालकनामादि ॥ गतावुत्पत्तुकामस्यान्तर्गतौ वर्तमानस्य तदभिमुखमानुपूर्व्या तत्यापणसमर्थमानुपूर्वीनामेति । निर्माणनिर्मितानां शरीराङ्गोपाङ्गानां विनिवेशक्रमनियामकमानुपूर्वीनामेत्यपरे ॥ अगुरुलघुपरिणामनियामकमगुरुलघुनाम ॥ शरीराङ्गोपाङ्गोपघातकमुपघातनाम, स्वपराक्रमविजयाधुपघातजनकं वा । परत्रासप्रतिघातादिजनकं पराघातनाम ॥ आतपसामर्थ्यजनकमातपनाम ॥ प्रकाशसामर्थ्यजनकमुद्योतनाम ॥ प्राणापानपुद्गलग्रहणसामर्थ्यजनकमुच्छ्वासनाम ॥ लब्धिशिक्षर्द्धिप्रत्ययस्याकाशगमनस्य जनकं विहायोगतिनाम ॥ पृथक्शरीरनिर्वतकं प्रत्येकशरीरनाम । अनेकजीवसाधारणशरीरनिर्वर्तकं
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy