Book Title: Tattvarthadhigam Sutram
Author(s): Prashamrativijay
Publisher: Ratnatrai Aradhak Sangh
View full book text
________________
११३
तत्त्वार्थाधिगमसूत्रम् संवेगो वैराग्यं च भवति । तत्र संवेगो नाम संसारभीरुत्वमारम्भपरिग्रहेषु दोषदर्शनादरतिः धर्मे बहुमानो धार्मिकेषु च । धर्मश्रवणे धार्मिकदर्शने च मनःप्रसाद उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति ॥ वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषूपाधिष्वनभिष्वङ्ग इति ॥७॥
अत्राह । 'उक्तं भवता हिंसादिभ्यो विरतिव्रतमिति । तत्र का हिंसा नामेति । अत्रोच्यते ।
प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥ ८ ॥ प्रमत्तो यः कायवाङ्मनोयोगैः प्राणव्यपरोपणं करोति सा हिंसा । हिंसा मारणं प्राणातिपातः प्राणवधः देहान्तरसंक्रामणं प्राणव्यपरोपणमित्यनर्थान्तरम् ॥८॥ अत्राह । अथानृतं किमिति । अत्रोच्यते
___ असदभिधानमनृतम् ॥ ९ ॥ असदिति सद्भावप्रतिषेधोऽर्थान्तरं गर्दा च ॥ तत्र सद्भावप्रतिषेधो नाम सद्भूतनिह्नवोऽभूतोद्भावनं च । तद्यथा-नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिह्नवः । श्या माकतण्डुलमात्रोऽयमात्मा, अङ्गुष्ठपर्वमात्रोऽयमात्मा, आदित्यवर्णो निःष्क्रिय इत्येवमाद्यमभूतोद्भावनम् ॥ अर्थान्तरं यो गां ब्रवीत्यश्वमश्वं च गौरिति ॥ गहेंति हिंसापारुष्यपैशुन्यादियुक्तं वचः सत्यमपि गर्हितमनृतमेव भवतीति ॥९॥ अत्राह । अथ स्तेयं किमिति । अत्रोच्यते
अदत्तादानं स्तेयम् ॥ १० ॥ स्तेयबुद्ध्या परैरदत्तस्य परिगृहीतस्य तृणादेर्द्रव्यजातस्याऽऽदानस्तेयम्॥१०॥ अत्राह । अथाब्रह्म किमिति । अत्रोच्यते -
- मैथुनमब्रह्म ॥ ११ ॥ स्त्रीपुंसयोमिथुनभावो मिथुनकर्म वा मैथुनं तदब्रह्म ॥ ११ ॥ अत्राह । अथ परिग्रहः क इति । अत्रोच्यते -
मूर्छा परिग्रहः ॥ १२ ॥ चेतनावत्स्वचेतनेषु च बाह्याभ्यन्तरेषु द्रव्येषु मूर्छा परिग्रहः । इच्छा प्रार्थना 1. अ. ७ सू. १ । २ श्यामाकः - कुधान्यविशेषः ।

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218