Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 234
________________ श्लोक २० अन्ययोगव्यवच्छेदिका कथमिव तूष्णीकतैवास्य श्रेयसी, यावता चेष्टाविशेषादिना प्रतिपावल्याभिप्रायमनुमाय सुकरमेवानेन वचनोच्चारणम् । इत्याशङ्कयाहक चेष्टा क दृष्टमात्रं च इति । कति बृहदन्तरे, चेष्टा इङ्गितम्पराभिप्रायस्यानुमेयस्य लिङ्गम् । क च दृष्टमात्रम् । दर्शनं दृष्ट, भावे तः। दृष्टमेव दृष्टमात्रम् प्रत्यक्षमात्रम्, तस्य लिङ्गनिरपेक्षप्रवृत्तित्वात अत एव दूरमन्तरमेतयोः । न हि प्रत्यक्षेणातीन्द्रियाः परचेतोवृत्तयः परिज्ञातुं शक्याः, तस्यैन्द्रियकत्वात् । मुखप्रसादादिचेष्टया तु लिङ्गभूतया पराभिप्रायस्य निश्चये अनुमानप्रमाणमनिच्छतोऽपि तस्य बलादापतितम् । तथाहि-मद्वचनश्रवणाभिप्रायवानयं पुरुषः, तादृग् मुखप्रसादादिचेष्टान्यथानुपपत्तरिति । अतश्च हहा ! प्रमादः--हहा इति खेदे अहो ! तस्य प्रमादः प्रमत्तता, यदनुभूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणापह्नते। अत्र संपूर्वस्य वेत्तेरकर्मकत्व एवात्मनेपदम्, अत्र तु कर्मास्ति, तत्कथमत्रानश् । अत्रोच्यते-अत्र संवेदितुं शक्तः संविदान इति कार्यम् , “ वयः शक्तिशाले" इति शक्तौ शानविधानात् । ततश्चायमर्थः-अनुमानेन विना पराभिसंहितं सम्यग् वेदितुमशक्तस्येति । एवं परबुद्धिज्ञानान्यथानुपपत्त्यायमनुमानं हठाद अङ्गीकारितः । तथा प्रकारान्तरेणाप्ययमङ्गीकारयितव्यः, तथाहिचार्वाकः काचित् ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्य, अन्याश्च विसंवादित्वेन व्यभिचारिणीः । पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं प्रमाणतेतरते व्यवस्थापयेत् । न च सनिहितार्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकाल १ 'क्तक्तवतू' इति हैमसूत्रम् ५।१।१७४ हैमसूत्रम् । २ — समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्तिदृशः । ३-३-८४ संपूर्वेभ्यः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् । ३ हैमसूत्र. ५।२।२४

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320