Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 312
________________ श्लोक ३२ अन्ययोगव्यवच्छेदिका २४२ जीवाइ भामुखी धान प्रकृतपा समर्थाः जीवाइ भाववाओ बंधाइ पसागहो इहं तावो। एएहिं परिसुद्धो धम्मो धम्मत्तणमुवेइ ॥३॥" तीर्थान्तरीयाप्ता हि न प्रकृतपरीक्षात्रयविशुद्धवादिन इति ते महामोहान्धतमस एव जगत् पातयितुं समर्थाः, न पुनस्तदुद्धतुम्, अतःकारणात् । कुतः कारणात् कुमतध्वान्तार्णवान्तःपतितभुवनाभ्युद्धारणासाधारणसामर्थ्यलक्षणात् , हे त्रातत्रिभुवनपरित्राणप्रवीण ! त्वयि काव्कावधारणस्य गम्यमानत्वात् त्वय्येव विषये न देवान्तरे, कृतधियः-करोतिरत्र परिकर्मणि वर्तते, यथा हस्तौ कुरु पादौ कुरु इति, कृता परिकर्मिता तत्त्वोपदेशपेशलतत्तच्छास्त्राभ्यासप्रकर्षण संस्कृता धीवुद्धिर्येषां ते कृतधियश्चिद्रूपाः पुरुषाः, कृत्तसपर्याःप्रादिकं विनाप्यादिकर्मणो गम्यमानत्वात् कृता कर्तुमारब्धा सपर्या सेवाविधियैस्ते कृतसपर्या आराध्यान्तरपरित्यागेन त्वय्येव सेवाहेवाकितां परिशीलयन्ति । इति शिखरिणीच्छन्दोऽलंकृतकाव्यार्थः ॥३२॥ ॥समाप्ता चेयमन्ययोगव्यवच्छेदद्वात्रिंशिकास्तवन का ॥ टीकाकारस्य प्रशस्तिः । येषामुज्ज्वलहेतुहेतिरुचिरः प्रामाणिकाध्वस्पृशां हेमाचार्यसमुद्भवस्तवनभूरर्थः समर्थः सखा । तेषां दुनेयदस्युसम्भवभयास्पृष्टात्मनां सम्भवत्यायासेन विना जिनागमपुरप्राप्तिः शिवश्रीप्रदा ॥१॥ चातुर्विद्यमहोदधेर्भगवतः श्रीहेमसूरेगिरां . गम्भीरार्थविलोकने यदभवद् दृष्टिः प्रकृष्टा मम । द्राघीयः समयादराग्रहपराभूतप्रभूतावमं तन्नूनं गुरुपादरेणुकणिकासिद्धाञ्जनस्योर्जितम् ॥ २॥ १ अत्यष्टौ यम्नसभल्गाः शिखरिणी चैः।। यमनसभलगा चैरिति षड्भियतिः । हैमछन्दोऽनुशासनं अ. २ सू. २८७,

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320