Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
.. स्याद्वादमञ्जरीसहिता
श्लोक २३ विविक्षते ग्रामे कतिपयदिनानि गृहारंभं कृत्वा ग्रामान्तरे गृहान्तरे गृहान्तरमास्थायावतिष्ठते तद्वदात्मापि विवक्षिते भवे देहं परिहाय भवान्तरे देहान्तरमारचय्यावतिष्ठते । यच्चोक्तं तच्च संवेदनं देहकार्यमिति चाक्षुषादिकं संवेदनं देहाश्रितमपि कथंचिद्भवतु चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसंभवात् यत्तु मानसं तत्कथं न हि तदेहकार्यमुपपत्तिमत् युक्त्ययोगात् । तथाहि तन्मानसं ज्ञानं देहादुत्पद्यमान मन्द्रियरूपाद्वा समुद्घातानीन्द्रियरूपाद्वा केशनखादिलक्षणात्तत्र न तावदाद्यः पक्ष इन्द्रियरूपादुत्पत्ताविन्द्रियबुद्धिवद्वर्तमानार्थग्रहणप्रसक्तेः इंद्रियं हि वार्तमानिक एवार्थे व्याप्रियते तत्सामर्थ्यादुषजायमानं मानसमपि ज्ञानं इन्द्रियज्ञानमिव वर्तमानाथग्रहणपर्यवसितसत्ताकमेव भवेत् । अथ यदा चक्षू रूपविषये व्याप्रियते तदा रूपे विज्ञानमुत्पादयतिन शेषकालं ततस्तदपि विज्ञानं वर्तमानार्थविषयं वर्तमाने एवार्थे चक्षुषो व्यापारात् । रूपविषयव्यापीयभावे च मनोज्ञानं ततो न तत्प्रतिनियतकालविषयं एवं शेषेष्वपीन्द्रियेषु याच्यम् । ततः कथमिव मनोज्ञानस्य वर्तमानार्थग्रहणप्रसक्तिस्तदसाधीया यत इन्द्रियाश्रितं तदुच्यते यदीन्द्रियव्यापारमनुसृत्यापजायते इन्द्रियाणां च व्यापारः प्रतिनियते एवं बार्तमानिके स्वस्वविषये मनोज्ञानमपि यदीन्द्रियव्यापाराश्रितं तत इन्द्रियज्ञानमिव वार्तमानिकार्थग्राहकमेव भवेदन्यथा इन्द्रियाश्रितमेव तत्र स्यात् । तथा च केचित्पठन्ति "अक्षव्यापारमाश्रित्य भवदक्षजमिष्यते। तयापारो न तत्रेति कथमक्षभवं भवेत् ॥” अथानीन्द्रियरूपादिति पक्षस्तदप्ययुक्तस्तस्याचेतनत्वात् नन्वचेतनत्वादिति कोऽर्थः यदीन्द्रियविज्ञानरहितत्वादिति तदिष्यते एव यदि नामन्द्रियविज्ञानं ततो न भवति मनों विज्ञानं.तु कस्मान्न भवति अथ मनोविज्ञानं नोत्पादयतीत्यचेतनत्वं तदा तदेव विचार्यमाणमिति प्रतिज्ञाथैकदेशासिद्धो हेतुः तदप्यसत् अचेनत्वादिति किमुक्तं भवति स्वनिमित्त विज्ञानैः स्फुरच्चिद्रूपतयानुपलब्धेः स्पर्शादयो हि स्वस्वनिमित्तं विज्ञानैः स्फुरच्चिद्रूषानुपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यत इति । युक्तं केशनखादयस्तु न मनोज्ञानेन तथा स्फुरच्चिद्रूषा उपलभ्यन्ते कथं तेभ्यो मनोज्ञानं भवतीति प्रतिध्यायन्तु सुधियः आह च " चेतयन्तो न दृश्यन्ते केशश्मश्रुनखादयः । ततस्तेभ्यो मनोज्ञानं भवतीत्यतिसाहसम् " अपि च यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततस्तदुच्छेदे मूलत एव न स्यात् तदुपघाते चोपहतं भवेन्न च भवति तस्मान्नायं पक्षः क्षोदक्षमः । किं च मनोज्ञानस्य सूक्ष्मार्थनेतृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यां व्यत्यासपूर्वका दृष्टाः । तथाहि तदेव शास्त्रमाहापोहादिप्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मसूक्ष्मतरार्थावबोधे उल्लसति स्मृतिपाटवं चापूर्वमुज्जम्भते एवं चैकशास्त्रेऽभ्यासतः सूक्ष्मार्थनेतृत्वशक्तौ पाटवशक्तौ चोपजातायामन्येष्वपि शास्त्रान्तरेषु अनायासेनैव सूक्ष्मार्थावबोधः स्मृतिमाटवं चोसल्लति तदेवमभ्य सहेतुकाः सूक्ष्मार्थने त्वादयो मनोज्ञानस्य विशेषदृष्टाः । अथ च कस्यचिदिह जन्माभ्यासव्यतिरेकेणापि दृश्यन्ते ततोऽवश्यं पारलौकिकाभ्यासहेतुका इति प्रतिपत्तन्यं
Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320