Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 269
________________ स्याद्वादमञ्जरीसहिता श्लोक २५ नित्यमित्यर्थः, स्यान्नित्यम्-अविनाशिधर्मीत्यर्थः, एतावता नित्यानित्यलक्षणमेकं विधानम् । तथा स्यात् सदृशमनुवृत्तिहेतुसामान्यरूपम् , स्याद् विरूपं विविधरूपम्-विसदृशपरिणामात्मकं व्यावृत्तिहेतुविशेषरूपमित्यर्थः । अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः। तथा स्याद् वाच्यं वक्तव्यम् , स्याद् न वाच्यमवक्तव्यमित्यर्थः । अत्र च समासेऽवाच्यमिति युक्तम् , तथाप्यवाच्यपदं योन्यादौ रूढमित्यसभ्यतापरिहारार्थं न वाच्यमित्यसमस्तं चकार स्तुतिकारः, एतेनाभिलाप्यानभिलाप्यस्वरूपस्तृतीयो भेदः। तथा स्यात्सद् विद्यमानमस्तिरूपमित्यर्थः, स्याद् असत् तद्विलक्षणमिति, अनेन सदसदाख्या चतुर्थी विधा । हे विपश्चितां नाथ ! संख्यावतां मुख्य ! इयमनन्तरोक्ता निपीततत्त्वसुधोद्गतोद्गारपरम्परा तवेति प्रकरणात् सामर्थ्याद्वा गम्यते-तत्त्वं यथावस्थितवस्तुस्वरूपपरिच्छेदः, तदेव जरामरणापहारित्वाद् , विबुधोपभोग्यत्वाद् , मिथ्यात्वविषोमिनिराकरिष्णुत्वाद्, आन्तराहादकांरित्वाच्च पीयूषं तत्त्वसुधा, नितरामनन्यसामान्यतया पीता आस्वादिता या तत्त्वसुधा तस्या उद्गता प्रादुर्भूता तत्कारणिका उद्गारपरम्परा उद्गारश्रेणिरिवेत्यर्थः। यथा हि कश्चिदाकण्ठं पीयूषरसमापीय तदनुविधायिनीमुद्गारपरम्परां मुञ्चति, तथा भगवानपि जरामरणापहारि तत्त्वामृतं स्वैरमास्वाद्य तद्रसानुविधायिनी प्रस्तुतानेकान्तवादभेदचतुष्टयीलक्षणामुद्गारपरम्परां देशनामुखेनोद्गीर्णवानित्याशयः। ___अथ वा यैरेकान्तवादिभिर्मिथ्यात्वगरलभोजनमातृप्ति भक्षितं तेषां तत्तद्वचनरूपा उद्गारप्रकाराः पारदर्शिताः। यैस्तु पंचेलिम१ अत्रेत्यारभ्य स्तुतिकार इत्यन्तं क. पुस्तके नास्ति । २ 'भेद ' इति ख. पुस्तके नास्ति । ३ पचेलिम-फलावस्थाप्राप्तम् ।


Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320