Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
२१५ स्याद्वादमञ्जरीसाहता
श्लोक २८ -विरोधलिङ्ग-संख्यादिभेदाद भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥५॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥६॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वाद् एवंभूतोऽभिमन्यते ॥७॥
एत एव च परामर्शा अभिप्रेतधर्मावधारणात्मकतया शेषधर्मतिरस्कारण प्रवर्तमाना दुर्नयसंज्ञामश्नुवते । तद्बलप्रभावितसत्ताका हि खल्वेते परप्रवादाः, तथाहि-नैगमनयदर्शनानुसारिणौ नैयायिकवैशेषिको।संग्रहाभिप्रायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः,सांख्यदर्शनं च । व्यवहारनयानुपाति प्रायश्चार्वाकदर्शनम् । ऋजुसूत्राकूतप्रवृत्तबुद्धयस्ताथागताः । शब्दादिनयावलम्बिनो वैयाकरणादयः।
उक्तं च सोदाहरणं नय--दुर्नयस्वरूपं श्रीदेवसूरिपादैः । तथा च तद्ग्रेन्थः- . - " नीयते येन श्रुताख्यप्रमाणविषयीकृतस्य अर्थस्य अंशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः" ॥१॥ इति ।
१ प्रागुवन्ति । २ अतःपरं । सप्तभङ्गीमनुव्रजति' इत्यन्तं त्रयःपश्चाशत्सूत्राणि प्रमाणनयतत्त्वालोकालङ्कारे सप्तमपरिच्छेदे । एभिरेव त्रयःपञ्चशद्भिः सूत्रैः सूत्रकारः श्रीवादिदेवसूरिपादस्तत्र नयलक्षणसङ्ख्याविषयान् व्यवस्थापितवान् ।
३ सूत्रोपरि ग्रन्थकारेण स्वयमेव स्याद्वादरत्नाकराख्या ८४००० श्लोकपरिमिता बृहट्टीका कृता । सा सप्तमाध्यायपर्यन्ताधुना उपलब्धास्ति किन्तु विस्तृतत्वात्किञ्चित्त्रुटितत्वाच्च अत्र न निर्देशीकृता । श्रीरत्नप्रभाचार्यकृता रत्नाकरावतारिकाख्या द्वितीया संक्षिप्ता टीका विषयविशदार्थ मुद्रिता ।
"एतावता प्रमाणतत्त्वं व्यवस्थाप्येदानी नयतत्त्वं व्यवस्थापयन्तिनीयते येन श्रुताख्यप्रमाणाविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ।। १॥

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320