Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 293
________________ २२३ स्याद्वादमञ्जरीसहितां सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ तथागतमेतम् ॥ ३१ ॥ कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥ ३२ ॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ॥ ३३ ॥ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥ ३४ ॥ ऋजुसूत्राभासं ब्रुवते — सर्वथा द्रव्यापलापी तदाभासः ॥ ३० ॥ सर्वथा गुणप्रधानभावाभावप्रकारेण तदाभास ऋजुसूत्राभासः ॥ ३० ॥ उदाहरन्ति - यथा तथागतमतम् ॥ ३१ ॥ तथागतो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकतया समर्थयते, तदाधारभूतं तु प्रत्यभिज्ञादिप्रमाणप्रसिद्धं त्रिकालस्थायि द्रव्यं तिरस्कुरुत इत्येतन्मतं तदाभासतयोदाहृतम् ॥ ३१ ॥ - शब्दनयं शब्दयन्ति - कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥ ३२ ॥ कालादिभेदेन कालकारकलिङ्ग संख्या पुरुषोपसर्गभेदेन ॥ ३२ ॥ उदाहरन्ति २८ यथा बभूव भवति भविष्यति सुमेरुरित्यादिः ।। ३३ । 'अत्रातीतवर्त्तमानभविष्यल्लक्षणकालत्रयभेदात्कनकाचलस्य भेदं शब्दनयः प्रति पद्यते । द्रव्यरूपतया पुनरभेदममुष्योपेक्षते । एतच्च कालभेदे उदाहरणम् । करोति क्रियते कुम्भ इति कारकभेदे, तटस्तटी तटमिति लिङ्गभेदे, दाराः कलत्रमित्यादि संख्याभेदे, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति पुरुषभेदे, सन्तिष्ठते अवतिष्ठत इत्युपसर्गभेदे, ॥ ३३॥ एतदाभासं ब्रुवते - तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥ ३४ ॥ तद्भेदेन कालादिभेदेन तस्य ध्वनेस्तमेवार्थभेदमेव । तदाभासः शब्दाभासः ॥ ३४ ॥ ( १ तदाभास' इति क. ह. पुस्तकयोः पाठः ।

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320