Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 308
________________ लोक ३१ अन्ययोगव्यवच्छोदिका ख्यं गुणमभिष्टुत्य समग्रवचनातिशयव्यावर्णने स्वस्यासामर्थ्य दृष्टान्तपूर्वकमुपदर्शयन् औद्धत्यपरिहाराय भङ्ग्यन्तरतिरोहितं स्वाभिधानं च प्रकाशयन् निगमनमाह वाग्वैभवं ते निखिलं विवेक्तु माशास्महे चेद् महनीयमुख्य !। लड्धेम जङ्घालतया समुद्र वहेम चन्द्रद्युतिपानतृष्णाम् ॥ ३१॥ विभव एव वैभवं प्रज्ञादित्वात् स्वार्थेऽण, विभोर्भावः कर्म चेति वा वैभवम् । वाचां वैभवं वाग्वैभवं वचनसंपत्यकर्षम्, विभोर्भाव इति पक्षे तु सर्वनयव्यापकत्वम् । विभुशब्दस्य व्यापकपर्यायतया रूढत्वात् । ते तव संबन्धिनं निखिलं कृत्स्नं विवेक्तुं विचारयितुं चेद् यदि वयमाशास्महे इच्छामः, हे महनीयमुख्य ! महनीयाः पूज्याः पञ्चपरमेष्ठिनस्तेषु मुख्यः प्रधानभूतः,आद्यत्वात्,तस्य संबोधनम् । ननु सिद्धेभ्यो हीनगुणत्वाद् अर्हतां कथं वागतिशयशालिनामपितेषां मुख्यत्वम्, न च हीनगुणत्वमसिद्धम् । प्रव्रज्यावसरे सिद्धेभ्यस्तेषां नमस्कारकरणश्रवणात्-" काऊण नमुक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे” इति श्रुतकेवलिवचनात् । मैवम् १ 'स्वाभिधानं च प्रकाशयन् इति प्रक्षिप्तमिव भाति । यतः 'बहेम' इति शब्दान्तगतहेमशब्दग्रहणं न सुसंगतम् । किंच स्याद्वादमञ्जरीकृद्भिः स्वयं तथा व्याख्यानं न कृतम् । २ 'प्रज्ञादिभ्योऽण्' इति हैमसूत्रम् ७।२।१६५. ३ 'पर्यायरूपतया' इति घ. रा. पुस्तकयोः पाठः । ४ कृत्वा नमस्कारं सिद्धेभ्योऽभिग्रहं तु सोऽग्रहीत् । इति छाया।

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320