Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 300
________________ २३० श्लोक २८ अन्ययोगव्यवच्छेदिका सत्येव भवतीत्याद्याकारं संवेदनमूहस्तांपरपर्यायः॥७॥ यथा यावान् कश्चिद् धूमःस सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसति असौ न भवत्येवेति वा ॥ ८॥ अनुमानं द्विधा-स्वार्थं परार्थं च ॥ ९ ॥तंत्रान्यथानुपपत्त्येकलक्षणहेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ।१०। पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥ २३ ॥ आ. तवचनाद् आविर्भूतमर्थसंवेदनमागमः ॥१॥ उपचाराद् आप्तवचनं च ॥२॥ इति । स्मृत्यादीनां च विशेषस्वरूपं स्याद्वादरत्नाकरात् साक्षेपपरिहारं ज्ञेयमिति । . प्रमाणान्तराणां पुनर्स्थापत्त्युपमानसंभवप्रातिभैतिह्यादीनामंत्रैव अन्तर्भावः । सन्निकर्षादीनां तु जडत्वाद एव न प्रामाण्यामिति । तदेवंविधेन नयप्रमाणोपन्यासेन दुर्नयमार्गस्त्वया खिलीकृतः । इति काव्यार्थः ॥२८॥ इदानीं सप्तद्वीपसमुद्रमात्रो लोक इति वावर्दूकानां तन्मात्रलोके परिमितानामेव सत्त्वानां संभवात् । परिमितात्मवादिनां दोषदर्शनमुखेन भगवत्प्रणीतं जीवानन्त्यवाद निर्दोपतयाभिष्टुवन्नाह १ ऊहापरनामा लर्क' इति ह. पुस्तके पाठः । २ 'तत्र हेतुग्रहणसम्बन्धस्मरणकारकं साध्यविज्ञानं स्वार्थम् ' इति प्र. न. लो. परि, ३ सू. १० ३ प्र. न, लो. परि. ३ सू. २३. ४ प्र, न, लो, परि. ४ सू. ११२ ६ वावदूकः--अतिवक्ता ।

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320