Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
श्लोक २९ अन्ययोगव्यवच्छेदिका
२३४ यिकाः, तेभ्योऽनन्तगुणा वनस्पतिकायिकाः, ते च व्यावहारिका अव्यावहारिकाश्चगोला य असंखिजा असंखणिग्गोय गोलओ भणिओ।
इकिक्कणिगोयम्हि अणन्तजीवा मुणेयव्वा ॥१॥ सिज्झन्ति जत्तिया खल इह संववहारजीवरासीदो।
एंति अणाइवणस्सइ रासीदो तत्तिआ तम्हि ॥२॥" इति वचनाद् यावन्तश्च यतो मुक्तिं गच्छन्ति जीवास्तावन्तोऽनादिनिगोदवनस्पतिराशेस्तत्रागच्छन्ति ।
न च तावता तस्य काचित् परिहाणिनिगादीवानन्त्यस्याक्षयत्वात् । निगोदस्वरूपं च समयसागराद् अवगन्तव्यम् । अनाद्यनन्तेऽपि काले ये कॅचिनिर्वृत्ताः, निर्वान्ति, निर्वास्यन्ति च ते निगोदानामनन्तभागेऽपि न वर्त्तन्ते, नावर्तिषत, न वय॑न्ति । ततश्च कथं मुक्तानां भवागमनप्रसङ्गः, कथं च संसारस्य रिक्तताप्रसक्तिरिति, अभिप्रेतं चैतद अन्ययथ्यानामपि । यथा चोक्तं वार्तिककारेण"अत एव च विद्वत्सु मुच्यमानेषु सन्ततम् ।
बह्माण्डलोकजीवानामनन्तत्वाद् अशून्यता ॥१॥ अत्यन्यूनातिरिक्तत्वैयुज्यते परिणामवत् ।
वस्तुन्यपरिमेये तु नूनं तेषामसम्भवः॥२॥" इति काव्यार्थः ।। २९ ॥ ___ अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्सरित्वं
गोलाश्च असंख्येयाः असंख्यनिगोदो गोलको भणितः । एकैकस्मिस् निगोदे अनन्तजीवा ज्ञातव्याः ।। १ ।। सिध्यन्ति यावन्तः खलु इह संव्यवहारजीवराशेः ।
आयान्ति अनादिवनस्पतिराशेस्तावन्तस्तस्मिन || || इति छाया २ अयं ग्रन्थो न विज्ञायते ।
Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320