Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
स्थाद्वादमरीसहिता प्रकाशयन् सर्वज्ञोपज्ञसिद्धान्तस्यान्योन्यानुगतसर्वनयमयतया मात्सर्याभावमाविर्भावयति
अन्योऽन्यपक्षप्रतिपक्षभावाद्
यथा परे मत्सरिणः प्रवादाः॥ नयानशेषानविशेषामिच्छन्
न पक्षपाती समयस्तथा ते ॥३०॥ प्रकर्षेण उद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति प्रवादाः) यथा येन प्रकारेण, परे भवच्छासनाद् अन्ये, प्रवादा दर्शनानि, मत्सरिण:-अतिशायने मत्वर्थीयविधानात् सातिशयासहनताशालिनः क्रोधकषायकलुषितान्तःकरणाः सन्तः पक्षपातिनः, इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनमवणा वर्तन्ते । कस्माद् हेतोर्मत्सरिणः, इत्याह-अन्योऽन्यपंक्षप्रतिपक्षभावात् । पच्यते व्यक्तीक्रियते साध्यधर्मवैशिष्टयेन हेत्वादिभिरिति पक्षः-कक्षीकृतधर्मप्रतिछापनाय साधनोपन्यासः, तस्य प्रतिकूल पक्षः प्रतिपक्ष:--पक्षस्य प्रतिपक्षो विरोधी पक्षः, तस्य भावः पक्षप्रतिपक्षभावः, अन्योऽन्यं परस्परं यः पक्षप्रतिपक्षभावः पक्षप्रतिपक्षत्वमन्योऽन्यपक्षप्रतिपक्षमावस्तस्मात् । तथा हि-य एव मीमांसकानां नित्यः शब्द इति पक्षः, स एव सौगतानां प्रतिपक्षः, तन्मते शब्दस्यानित्यत्वात् । य एव सौगतानामनित्यः शब्द इति पक्षः, स एव मीमांसकानां पतिपक्षः। एवं सर्वप्रयोगेषु योज्यम् । तथा तेन प्रकारेण, ते तव, सम्यक्
१ सर्वनयस्वरूपयुक्ततयेत्यर्थः । २ 'परदर्शनानि' इति क. ख. पुस्तकयोः पाठः। ३ भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः । इत्युक्तेः।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c90413159981c6f792aec826e1c32c961a0c96f8b9bbe90684dbd58fd23eb6fa.jpg)
Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320