Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
२३२
श्लोक २९
अन्ययोगव्यवच्छेदिका "दग्धे बीजे यथात्यन्तं प्रादुर्भवति ना
कर्मबीजे तथा दग्धे न रोहति भवाङ्करः॥" इति वचनात् ।
___ आह च "पतञ्जलिः–“संति मले तद्विपाको जात्यायुर्भोगाः" इति । एतट्टींका च "सत्सु क्लेशेषु कर्माशयो विपाकारम्भी: भवति नोच्छिन्नक्लेशमूलायथा तुषावनद्वा शालितण्डुला अदग्धवीजभावाः प्ररोहसमर्था भवन्ति, नापनीततुषा दग्धबीजभावा वा । तथा क्लैशावनद्धः कमाशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाकस्त्रिविधी जातिरायुर्भोगः" इति । अक्षपादोऽप्याह-"न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य” इति । एवं विभङ्गज्ञानिशिवराजर्षिमतानुसारिणो दृषयित्वा उत्तरार्द्धन भगवदुपज्ञमपरिमितात्मवादं निर्दोषतया स्तौति-पड्जीवेत्यादि । त्वं तु हे नाथ ! तथा तेन प्रकारेण, अनन्तसंख्यमनन्ताव्यसं याविशेषयुक्तं पड्जीवकायम्-अजीवन् , जीवन्ति, जीविष्यन्ति चेति जीवा इन्द्रियादिज्ञानादिद्रव्यभावप्राणधारणयुक्ताः, तेषां “सङ्घऽनूचे" इति चिनोतेञि आदेश्व कत्वे कायः समूहः जीवकायः पृथिव्यादिः, पण्णां जीवकायानां समाहारः षड्जीवकायम् , पात्रादिदर्शनाद नपुंसकत्वम्। अथवा षण्णां जीवानां कायः प्रत्येकं सातः षड्जीवकायस्तं पड़जीवकायम्-पृथिव्यप्-तेजो-वायु-वनस्पति-त्रसलक्षणषर्जावानकायम् , तथा तेन प्रकारेण, आख्यः मयादया प्ररूपितवान , १ पातञ्जलसूत्रम् २।१३ २ वात्स्यायनभाष्यम् । २।१३ ३ गौतमसूत्र ४।१।६४ ४ हैमसूत्र ५।३।८० ५ 'पात्राद्यन्तस्य न' का. बा.
Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320