Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 299
________________ २२९ स्याद्वादमञ्जरीसहिता "नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफली यतस्ततो भवन्तमार्याः प्रणता हितैषिणः " ॥ १ ॥ इति श्लोक २८ तच्चै द्विविधम् - प्रत्यक्षं परोक्षं च । तत्र प्रत्यक्षं द्विधा - सांव्यावहारिकं पारमार्थिकं च । सांव्यावहारिकं द्विविधम्-इन्द्रियानिन्द्रियनिमित्तभेदात् । " तद् द्वितयम् अवग्रहेहावायधारणाभेदाद् एकशश्चतुर्विकल्पम् || ६ ||" अवग्रहादीनां स्वरूपं सुप्रतीतत्वाद् न प्रतन्यते । " पारमार्थिकं पुनरुत्पत्तौ आत्ममात्रापेक्षम् ||१८|| " तद् द्विविधम्- क्षायोपशमिक क्षायिकं च । आद्यम्-अवधि- मनःपर्यायभेदाद द्विधा क्षायिकं तु केवलज्ञानमिति । परोक्षं च स्मृति — प्रत्यभिज्ञानो — हानुमाना - गमभेदात् पञ्चप्रकारम् । तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मृतिः ॥ ३ ॥ तते तीर्थकर विम्बमिति यथा ॥ ४ ॥ अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् ॥ ५ ॥ यथा तजातीय एवायं गोपिण्डः, गोसदृशो गवयः, स एवायं जिनदत्त इत्यादि ॥६॥ उपलम्भानुपलम्भसम्भवं त्रिकालीकलित साध्यसाधनसम्बन्धाद्यालम्बनं - -- इदमस्मिन् १ 'सत्यलाञ्छना' इति बृहत्स्वयंभुस्तोत्रावल्यामुपलभ्यते । २" गुणा' इति बृहत्स्वयंभुस्तोत्रावल्यामुपलभ्यते । ३ प्र. न. लो. परि. २ सू. १, २, ३४, ५. ४ एतत्स्वरूपं प्रमाणनयतत्त्वालोकालङ्कारे द्वितीयपरिच्छेदे सू. ५/६ इत्यत्र द्रष्टव्यम् । ५ प्र. न. लो. परि. २ सू. १८. ६ क्षयेणोदयप्राप्तकर्मणो विनाशेन सहोपशमे विष्कम्भितोदयत्वं क्षयोपशमः । ७ एतल्लक्षणं भेदानि च प्र. न. लो. परि. ३ सू. १/२ ३ ८ प्र. न. लो. परि. ३ सू. ९ प्र. न. लो. परि. ३ सू. ४।

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320