Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 297
________________ २२७ स्याद्वादमञ्जरीसहिता श्लोक २८ वर्तमानविषयाद् ऋजुमूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वाद् अनल्पार्थः ॥ ४९ ॥ कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तविपरीतवेदकत्वाद् महार्थः ॥५०॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः॥५१॥ प्रतिक्रियं विभिन्नमर्थ प्रतिजानानाद् एवंभूतात् समभिरूढस्तदन्यथार्थस्थापकत्वाद् महागोचरः॥५२॥ व्यवहारात् ऋजुसूत्रो बहुविषय इति विपर्यासं निरस्यन्ति- ... वर्त्तमानविषयादृजुसूत्राद्व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ॥४९।। वर्त्तमानक्षणमात्रस्थायिनमर्थमृजुसूत्रः सूत्रयतीत्यसावल्पविषयः, व्यवहारस्तु कालत्रितयवर्त्यर्थजातमवलम्बत इत्ययमनल्पार्थ इति ॥ ४९॥ . . ऋजुसूत्राच्छब्दो बहुविषय इत्याशङ्कामपसारयन्ति कालादिभेदेन भिन्नार्थीपदार्शनः शब्दाजुसूत्रस्तद्वि. . परीतवेदकत्वान्महार्थः ॥ ५० ॥ शब्दनयो. हि कालादिभेदाद्भिन्नमर्थमुपदर्शयतीति स्तोकविषयः, ऋजुसूत्रस्तु कालादिभेदतोऽप्यभिन्नमर्थ सूचयतीति बहु विषय इति ॥ ५० ॥ शब्दात्समभिरूढो महार्थ इत्यारेका पराकुर्वन्तिप्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्त द्विपर्ययानुयायित्वात् प्रभूतविषयः ॥५१॥ समभिरूढनयो हि पर्यायशब्दानां व्युत्पत्तिभेदेन भिन्नार्थतामर्थयत इति तनुगोचरोऽसौ, शब्दनयस्तु तेषां तभेदेनाप्येकार्थतां समर्थयत इति समधिकविषयः ।। ५१ ॥ समभिरूढादेवंभूतो भूमविषय इत्यप्याकृतं प्रतिक्षिपन्तिप्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवंभूतात्समभिरूढ-. . स्तदन्यथार्थस्थापकत्वान्महागोचरः ।। ५२॥ एवंभूतनयो हि क्रियाभेदेन भिन्नमर्थ प्रतिजानीत इति तुच्छविषयोऽसौ, समभिरूढस्तु तद्भेदेनाप्यभिन्नं भावमभिप्रैतीति प्रभूतविषयः ॥ ५२ ॥

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320