Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
२२५ - स्याद्वादमञ्जरीसहिता
श्लोक २८ शब्दानां स्वप्रवृत्तिनिमित्तभूताक्रियाविशिष्टमर्थ वाच्यत्वेनाभ्युपगच्छन् एवंभूतः ॥ ४०॥
यथेन्दनमनुभवन् इन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥४१॥ क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु तदाभासः ॥ ४२ ॥
एवंभूतनयं प्रकाशयन्ति
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं
वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः ॥ ४०॥ - समभिरूढनयो इन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत् तथा रूढेः सद्भावात् । एवंभूतः पुनरिन्दनादिक्रियापरिणतमथ तक्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । नहि कश्चिदक्रियाशब्दोऽस्यास्ति, गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात्-गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव-शुचिभवनात् शुक्लो नीलनान्नील इति । देवदत्तो यशदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं देयात् , यश एनं देयादिति । संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव-दण्डोंsस्यास्तीति दण्डी; विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् । पञ्चतयी तु शन्दानां व्यवहारमांत्राट'न निश्चयादित्ययं नयः स्वीकुरुते ॥ ४० ॥
उदाहरन्तियथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूरणप्रवृत्तः
पुरन्दर इत्युच्यते ॥४१॥ एवंभूताभासामाचक्षतेक्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंन्तु तदाभासः ॥ ४२ ॥
क्रियांविष्टं वस्तु ध्वनीनामभिधेयतया प्रतिजानानोऽपि यः परामर्शस्तदनाविष्टं लत्तेषां तथा प्रतिक्षिपति नतूपेक्षते स एवंभूतनयाभासः, प्रतीतिविघातात् ॥ ४२॥
१ क्रियाविष्ट ' इति क, ख. पुस्तकयोः पाठः।
Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320