Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
लोक २८
अन्ययोगव्यवच्छेदिका
२१८
आयो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥६॥ धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद् विवक्षणं स
नैकगमो नैगमः ॥७॥ सत् चैतन्यमात्मनीति धर्मयोः ।।८।
वस्तु पर्यायवद् द्रव्यमिति धर्मिणोः ॥ ९ ॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ॥ १० ॥द्रव्यार्थिकभेदानाहुः
आद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा ॥ ६॥
आद्यो द्रव्यार्थिकः ॥ ६ ॥ तत्र नैगमं प्ररूपयन्ति
धर्मयोधर्मिणोधर्मर्मिणोश्च प्रधानोपसर्जनभावेन
यद्विवक्षणं स नैकगमो, नैगमः ।।७।। पर्याययोर्द्रव्ययोर्द्रव्यपर्याययोश्च मुख्यामुख्यरूपतया द्विवक्षणं स एवरूपो नके गमा बोधमार्गा यस्यासौ नैगमो नाम नयो ज्ञेयः ॥ ७ ॥ . अथास्योदाहरणाय सूत्रत्रयीमाहुः
सच्चैतन्यमात्मनीति धर्मयोः ॥ ८ ॥ प्रधानोपसर्जनभावेन विवक्षणमितीहोत्तरत्र च सूत्रद्वये योजनीयम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य प्राधान्येन विवक्षणम् । विशेष्यत्वात् । सत्त्वाख्यस्य तु व्यञ्जनपर्यायस्योपसर्जनभावेन । तस्य चैतन्यविशेषणत्वादिति धर्मद्वयगोचरो नैगमस्य प्रथमो भेदः ॥ ८॥
वस्तु पयर्यायवद् द्रव्यमिति धर्मिणोः ॥९॥ अत्र हि पर्यायवद् द्रव्यं वस्तु वर्त्तत इति विवक्षायां पर्यायवद् द्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस्य तु विशेषणत्वेन गौणत्वम् । यद्वा । कि वस्तु पर्यायवद् द्रव्यमिति विवक्षायां वस्तुनो विशेष्यत्वात् प्राधान्यम् , पर्यायवद् द्रव्यस्य • तु विशेषणत्वात् गौणत्वमिति धर्मियुग्मगोचरोऽयं नैगमस्य द्वितीयो भेदः ॥ ९ ॥
क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ।। १० ।। ___अत्र हि विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात् सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति धर्मधालम्बनोऽयं नैगमस्य तृतीयो भेदः । न चास्यैवं प्रमाणात्मकत्वानुषङ्गो धर्मधर्मिणोः प्राधान्येनात्र ज्ञतेरसंभवात् तयोरेन्यतर एव हि नैगमनयेन प्रधानतयानुभूयते । प्राधान्यन द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्विज्ञानं प्रमाणं प्रतिपत्तव्यं नान्यत् ॥ १० ॥
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/105191c87108764751f23cfd13f45294e764927eba29e06c5c3d7b081cfba59b.jpg)
Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320