Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
श्लोक २८ अन्ययोगव्यवच्छेदिका
२२. सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभासः॥१७॥ यथा सत्तैव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥१८॥
द्रव्यत्वादीनि अवान्तरसामान्यान मन्वानस्तद्भदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥ १९ ॥ ..
धर्मा-धर्मा-काश-काल-पुद्गल-जीव--द्रव्याणामैक्यं द्रव्यत्वाभेदात् इत्यादियेथा ॥ २० ॥
एतदाभासमाहुः-- सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः ॥ १७ ॥
अशेषविशेषेष्वौदासीन्यं भजमानो हि परामर्शविशेषः संग्रहाख्यां लभते, न चायं तथेति तदाभासः ॥ १७ ॥
उदाहरन्तियथा सत्तैव तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् ॥ १८ ॥
अद्वैतवादिदर्शनान्यखिलानि सांख्यदर्शनं चैतदाभासत्वेन प्रत्येयम् । अद्वैतवादस्य सर्वस्यापि दृष्टेष्टाभ्यां विरुद्धयमानत्वात् ॥ १८ ॥
अथापरसंग्रहमाहुःद्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ।। १९ ।।
द्रव्यत्वमादियैषां पर्यायत्वप्रभृतीनां तानि तथा, अवान्तरसामान्यानि सत्ताख्यमहासामान्यापेक्षया कतिपयव्यक्तिनिष्ठानि तद्भेदेषु द्रव्यत्वाद्याश्रयभूतविशेषेषु द्रव्यपर्याः यादिषु गजनिमीलिकामुपेक्षाम् ।। १९॥ . उदाहरन्तिधर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥२०॥
___ अत्र द्रव्यं द्रव्यमित्यभिन्नज्ञानाभिधानलक्षणलिङ्गानुमितद्रव्यत्वात्मकत्वेनैक्यं षण्णामपि धर्मादिद्रव्याणां संगृह्यते । आदिशब्दाच्चेतनाचेतनपर्यायाणां सर्वेषामेकत्वम् ; पर्यायत्वाविशेषादित्यादि दृश्यम् ।। २० ॥
१ (१११ ) पृष्ठे द्रष्टव्या.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3ffcdee8c72ad81f5709eaa0cd593cf57395755a5430e2601571e2c0f1ebad27.jpg)
Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320