Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 272
________________ श्लोक २६ ___ अन्ययोगव्यवच्छेदिका प्लेदितीयादिक्षणेषु अकुवार्णस्यानित्यता बलाद् आढौकते । करणाकरणयोरेकस्मिन् विरोधाद् इति । तदेवमेकान्तद्वयेऽपि ये हेतवस्ते युक्तिसाम्याद् विरुद्धं न व्यभिचरन्तीत्यविचारितरमणीयतया मुग्धजनस्य ध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिका इति । अत्र च नित्यानित्यैकान्तपक्षप्रतिक्षेप एवोक्तः । उपलक्षणत्वाच्चै सामान्यविशेषाद्यकान्तवादा अपि मिथस्तुल्यदोषतया विरुद्धा व्यभिचारिण एव हेतूनुपस्पृशन्तीति परिभावनीयम् । . अथोत्तरार्द्ध व्याख्यायते-परस्परेत्यादि-एवं च कण्टकेषु क्षुद्रशत्रुष्वेकान्तवादिषु, परस्परध्वंसिषु सत्सु परस्परस्मात् ध्वसन्ते विनाशमुपयान्तीत्येवंशीलाः सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेषु, हे जिन ! ते तव शासनं स्याद्वादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं पराभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवाभावाद् अधृष्यमपराभवनीयम् , "शक्तार्हे कृत्याश्च" । इति कृत्यविधानाद् धर्षितुमशक्यम् , धर्षितुमनर्ह वा-जयति सर्वोत्कर्पण वर्तते। यथा कश्चिन्महाराजः पीवरपुण्यपरीपाकः परस्परं विगृह्य स्वयमेव क्षयमुपेयिवत्सु द्विपत्सु अयत्नसिद्धनिष्कण्टकत्वं समृद्धं राज्यमुपभुञ्जानः सर्वोत्कृष्टो भवति एवं त्वच्छासनमपि । इति काव्यार्थः।२६।. १ आढौकते-प्राप्नोति । २ ध्यान्ध्यं-धियः बुद्धेरान्ध्य-मान्यम् । ३ 'उपलक्षणत्वात्तु' इति क. पुस्तके पाठः । ४ सुन्दोपसुन्दनामानौ राक्षसी द्वौ भ्रातरौ ब्रह्मणः सकाशात् वरं लब्धवन्तौ यत आवयोमृत्युः परस्परादस्तु नान्यस्मात् । तथेत्युक्ते ब्रह्मणा मत्तौ तौ त्रिलोकी पीडयामासतुः । अथ देवप्रेषितां तिलोत्तमामुपलभ्य तदर्थं मिथो युध्यमानावम्रियेताम् । एवमेकान्तवादिनः स्वतत्त्वसिद्धयर्थं परस्परं विवदमाना विनश्यन्ति । ततश्चानेकान्तवादो जयति । ५ हैमसूत्रम् '५।४।३५॥ ६ कृत्यः-कृत्यप्रत्ययः ।

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320