Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 281
________________ २११ स्याद्वादमञ्जरीसहिता श्लोक २८ नयाथानन्ता अनन्तधर्मत्वात् वस्तुनः, तदेकधर्मपर्यवसितानां वक्तुरभिप्रायाणां च नयत्वात् । तथा च वृद्धाः "जावईआ वयणपहा तावइआ चेव हुँति नयवाया" इति । तथापि चिरन्तनाचार्यैः सर्वसंग्राहिसप्ताभिप्रायपरिकल्पनाद्वारेण सप्त नयाः प्रतिपादिताः। तद्यथा-नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूद्वैवंभूता इति । कथमेषां सर्वसंग्राहकत्वमिति चेत्, उच्यते अभिप्रायस्तावद् अर्थद्वारेण शब्दद्वारेण वा प्रवर्तते, गत्यन्तराभावात् । तत्र ये केचनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽपि आये नयचतुष्टयेऽन्तर्भवन्ति । ये च शब्दविचारचतुरास्ते शब्दादिनयत्रये इति । ___तत्र नैगमः सत्तालक्षणं महासामान्यम्, अवान्तरसामान्यानि च द्रव्यत्व-गुणत्व-कर्मत्वादीनि । तथान्त्यान् विशेषान् सकलासाधारणरूपलक्षणान्, 'अवान्तरविशेषांश्चापेक्षया पररूपव्यावर्तनक्षमान् सामान्यात् अत्यन्तविनि ठितस्वरूपानभिप्रैति । इदं च स्वतन्त्रसामान्यविशेषवादे क्षुण्णमिति न पृथक्प्रयत्नः। प्रवचनप्रसिद्धनिलयनप्रस्थदृष्टान्तद्वयगम्यश्चायम् । संग्रहस्तु अशेषविशेषतिरोधानद्वारेण सामान्यरूपतया विश्वमुपादत्ते । एतच्च सामान्यैकान्तवादे प्रोक् प्रपश्चितम् । व्यवहारस्त्वेवमाह-यथा लोकग्राहमेव वस्तु अस्तु, किमनया अदृष्टाव्यवन्हियमाणवस्तुपरिकल्पनकष्टपिष्टिकया, यदेव च लोकव्यवहारपथमवतरति तस्यैवानुग्राहकं प्रमाणमुपलभ्यते । नेतरस्य । १ यावन्तो वचनपथास्तावन्त एव भवन्ति नयवादाः । इति छाया । २ चतुर्थश्लोकः । ३ 'जल्पितम्' इति क. पुस्तके पाठः । ४ अनुयोगद्वारसूत्र १४५ व्याख्या श्रीमलयागरिकता पृ. २२३ । २२५ ५ चतुर्थपञ्चमश्लोकयोः । ६ लोके यथा प्रसिद्धं तथा ।

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320