Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji
View full book text
________________
२.१
... स्याद्वादमञ्जरीताहिता
श्लोक २६ नित्यैकान्तवादिभिः प्रसज्यमाना अन्यूनाधिकाः। तथाहि नित्यवादी प्रमाणयति-सर्व नित्यं सत्त्वात् क्षणिके सदसत्कालयोरर्थक्रियाविरोधात् तल्लक्षणं सत्त्वं नावस्थां बनातीति ततो निवर्तमानमनन्यशरणतया नित्यत्वेऽवतिष्ठते । तथाहि-क्षणिकोऽर्थः सन्वा कार्यं कुर्याद् , असन्वा । गत्यन्तराभावात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापारायोगात्, सकलभावानां परस्परं कार्यकारणभावप्राप्त्यातिप्रसङ्गाच्च । नापि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्यकारणशक्तिविकलत्वात् , अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन् , विशेषाभावात् इति ।
अनित्यवादी नित्यवादिनं प्रति पुनरेवं प्रमाणयति-सर्व क्षणिकं सत्त्वात् , अक्षणिके क्रम-योगपद्याभ्यामर्थक्रियाविरोधाद् अर्थक्रियाकारित्वस्य च भावलक्षणत्वात् , ततोऽर्थक्रिया व्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्त्तयेदिति क्षणिकसिद्धिः । न हि नित्योऽर्थोऽर्थक्रियां क्रमेण प्रवर्तयितुमुत्सहते , पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां क्रमणे प्रवृत्तेः । अन्यथा पूर्वक्रियाकरणाविरामप्रसङ्गात् , तत्स्वभावप्रच्यवे च नित्यता प्रयाति । अतादवस्थ्यस्यानित्यतालक्षणत्वात् । अथ नित्योऽपि क्रमवर्तिनं सहकारिकारणमर्थमुदीक्षमाणस्तावदासीत् , पश्चात् तमासाद्य क्रमेण कार्य कुर्यादिति चेत् । न, सहकारिकारणस्य नित्येऽकिञ्चित्करत्वात् अकिञ्चित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् । नापि यौगपद्येन नित्योऽर्थोऽर्थक्रियां कुरुते, अध्यक्षविरोधात्-न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते, करोतु वा तथाप्याद्यक्षण एव सकलक्रियापरिसमा१ 'समकालं भावानाम्' इति क. पुस्तके पाठः। २ 'क्रमेण' इति क. पुस्लके नास्ति । ३ 'अर्थे' इत्यधिकं ह. पुस्तके ।
२६
Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320