Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 251
________________ १८१ . स्याद्वादमञ्जरीसहिता श्लोक. २३ गुणत्वे सति पृथिव्याः काठिन्यस्यैव सर्वत्र सर्वदा चोपलम्भप्रसंगात् । न च सर्वत्र सर्वदा चोपलभ्यते चैतन्यं लोष्ठादौ मृतावस्थायां चानुपलम्भात् । अथ तत्रापि चैतन्यमस्ति । केवलं शक्तिरूपेण ततो नोपलभ्यते तदसम्यग्विकल्पद्वयानतिक्रमात् । साहि शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव यदि विलक्षणा ततः कथमुच्यते शक्तिरूपेण चैतन्यमस्ति न हि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति, वक्तुं शक्यं तथा चाहान्योऽपि " रूपान्तरेण यदि तत्तदेवास्तीति मा रटीः। चैतन्यादन्यरूपस्य भावे तद्विद्यते कथम् ॥ १ ॥” अथ द्वितीयः पक्षस्तर्हि चैतन्यमेव तत्कथमनुपलम्भ आवृतत्वादनुपलम्भ इति चेत्तत्वावृत्तिरावरणं तच्च वरणं किं, भूतानां विवक्षितपरिणामानामुत परिणामान्तरमाहोस्विदन्यदेव भूतातिरिक्तं किंचित् । तत्र न तावद्विवक्षितपरिणामाभावः एकान्ततुच्छरूपतया तस्यावारकत्वायोगात् अन्यथा तस्याप्यतुच्छरूपतया भावरूपतापत्तिभ वत्वे पृथिव्यादीनामन्यतमो भावो भवेत् " पृथिव्यादीन्येव भूतानि तत्त्वमिति वचन त्" पृथिव्यादीनि च भूतानि चैतन्यस्य व्यंजकानि नावारकाणीति कथमावारकत्वं तस्योपपत्तिमत् अथ परिणामान्तरं तदयुक्तं परिणामान्तरस्यापि भूतस्वभावतया भूतवद्व्यंजकत्वस्योपपत्ते वारकत्वस्य,अथान्यदेव भूतातिरिक्तं किंचित् तपतीवासमीचीनम्। भूतातिरिक्ताभ्युपगमे चत्व येव पृथिव्यानि भूतानि तत्त्वमिति तत्त्वसंख्याव्याघलप्रसंगात्। अपि चेदं चैतन्यं प्रत्येकं वा भूतानां धर्मः समुदायस्य वा न तावत्प्रत्येकमनुपलम्भात् । न हि प्रतिपरमाणुसंवदनमुपलभ्यते । अपि. च यदि प्रलिपरमाणुसंवेदनं भवेत्तर्हि. पुरुषसहस्रचैतन्यवृन्दमिव परस्परं भिन्नस्वभावमिति नैकरूपं भवेत् । अथ चैकरूपमुपलभ्यते अहं पश्याम्यहं करोमीत्येवं सकलशरीराधिष्टित नेकस्वरूपतया नुभवात् अथ समुदायस्य धमस्तदप्यसत्प्रत्येकमसत्समुदायेऽपि न भवति यथा रेणुषु तैलं स्यादेतन्मयाङ्गेषु प्रत्येक मदशक्तिरदृष्टांषि समुदायऽपि भवन्ती दृश्यते । तचैतन्यमपि भविष्यति को दोषः तदसम्यक् प्रत्येकमपि मद्याङ्ग मदशक्त्यनुयायिमाधुर्यादिगुणदर्शनात तथाहि दृश्यते माधुर्यमिक्षुरसे धातकीपुष्पे च मनाक् विकलितोत्पादि, न चैवं चैतन्यं सामान्यतोऽपि भूतेषु प्रत्येकमुपलभ्यते ततः कथं समुदाये तद्भवितुमर्हति मा प्रापत्सर्वस्य सर्वत्राभावप्रसतातिप्रसंगात् । किं च यदि चैतन्यं भूतधर्मत्वेन प्रतिपन्नं ततोऽवश्यमस्यानुरूपो धर्म: प्रतिपत्तव्यः आनुरूप्याभावे जलकाठिन्ययोरिव परस्परधर्मधर्मिभावोऽनुपात्तः न च भूतानामनुरूपो धर्मी वैलक्षण्यात्तथाहि चैतन्यं बोधस्वरूपममूर्तं च भूतानि तद्विलक्षणानि ततः कथमेषां परस्परं धर्मधर्मिभावः । नापि चैतन्यमिदं भूतानां कायमत्यंतविलक्षणतया कारणभावस्याप्ययोगत् तथा चोक्तम् 'काठिन्याबोधरूपाणि भूतान्यध्यक्ष सद्धितः । चलनाभगतद्रूपा सा कथं तत्फल भवेत् ॥१॥" अपि च याद भूताक ये चैतन्यं तर्हि किं न सकलमपि जगत्प्राणमयंः भवति परिणतिविशेषसद्भावाभावात् इति चेन्ननु सोऽपि परिणाविशषसद्भावः सर्वत्रापि कस्मान्न भवति

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320