Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 247
________________ स्याद्वादमञ्जरी सहित श्लोक २३ तेषामुपपत्तिनिरपेक्षं यदृच्छया वस्तुतत्त्वोपलम्भसंरम्भात् । सम्यग्हष्टिपरिगृहीतं तु मिथ्याश्रुतमपि सम्यक् श्रुततया परिणमति, सम्यग्दृशां सर्वविदुपदेशानुसारिप्रवृत्तितया मिथ्या श्रुतोक्तस्याप्यर्थस्य यथावस्थितविधिनिषेधविषयतयोन्नयनात् । तथा हि किल वेदेअजैर्यष्टव्यम् " इत्यादिवाक्येषु मिथ्यादृशोऽजशब्दं पशुवाच १७७ "" (३) तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं एकादिदशान्तसंख्याभेदो वा स्थानं तत्प्रतिपादको ग्रन्थोऽपि स्थानं तच्च तदंगं च स्थानांगम् । अस्य दशाध्ययनानि ( स्थानानि ) । मूलश्लोकसंख्या ३७७० श्री अभयदेवसूरिकृतटीका १५२५० संपूर्ण - संख्या १९०२० । (४) समवायनं समवायः एका दिशतान्तसंख्या समाविष्टानां पदार्थानां सङ्ग्रहः तखे । तुश्च ग्रन्थोऽपि समवायः । मूलश्लो० १६६७ श्रीअभयदेवसूरिकृतटीका ३७७६ - पूर्वाचार्यकृता चूर्णि : ४०० संपूर्णसंख्या ५८४३ श्लोकपरिमिता । (५) भगवतीति पूजाभिधानं व्याख्याप्रज्ञतेः पंचमांगस्य सा चासौ अंगं च भगवत्यङ्गम् । तस्याः ४१ शतकानि । मूलश्लो. १७७५२ श्री अभयदेवसूरिकृतटीका १८६१६ । पूर्वाचार्यकृता चूर्णिः ४००० संपूर्णसंख्या ३८३६८ श्लोकपरिमिता | संवत् १५६८ वर्षे श्रीमद्दानशेखरोपाध्यायेन १२००० श्लोकपरिमिता लघुवृत्तिः कृता । (६) ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा तत्प्रतिपादको ग्रन्थोऽपि तथा । एकोनविंशतिरध्ययनात्मकः । मूल ५५०० श्रीअभयदेवसूरिकृतटीका ४२५२ संपूर्णसंख्या ९७५२ श्लोकपरिमिता । (७) उपासकाः श्रावकाः तद्गत क्रियाकलापप्रतिबद्धा दशा दशाध्ययनरूपा उपासक दशाः बहुवचनान्तमेतद्गन्थनाम । दशाध्ययनात्मक : मूलश्लो. ८१२ श्रीअभयदेवसूः रिकृतटीका ९०० संपूर्णसंख्या १७१२ श्लोकपरिमिता । (८) अंतो विनाशः स च कर्मणः तत्फलभूतस्य वा संसारस्य तं कुर्वन्ति ये तीर्थकरादयस्तेऽन्तकृतः तेषां दशाः प्रथमवर्गो दशाध्ययनात्मकत्वात् तत्संख्यया अंतकृद्दशाः । अध्ययनानि नवतिः ( ९० ) । मूलश्लो. ९०० श्रीमदभयदेवसूरिकृतटीका ३०० संपूर्णसंख्या १२०० श्लोकपरिमिता । ( ९ ) न विद्यते उत्तरः प्रधानोऽस्मादित्यनुत्तर उपपतनं उपपातो जन्म अनुत्तरप्रध नः संसारेऽन्यस्य तथाविधस्याभावात् उपपातोऽस्त्येषामित्यनुत्तरोपपातिकाः विजयवैजयन्त जयंता पराजित सर्वार्थसिद्ध विमानपंचकजन्मानो देवाः तद्वक्तव्यता प्रतिबद्धदशाः २३

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320