Book Title: Syadwad Manjari
Author(s): Motilal Ladhaji
Publisher: Motilal Ladhaji

View full book text
Previous | Next

Page 246
________________ श्लोक २३ अन्ययोगव्यवच्छेदिका १७६ दूषितमतितया यथावस्थितवस्तुतत्त्वानवबोधेन बोधरूपत्वाभावात्। तथा चागमः"सदसदविसेसणाउ भवहेउजदिच्छिओवलंभाउ। णाणफलाभावाउ मिच्छादिहिस्स अण्णाणं" ॥१॥ __ अत एव तत्परिगृहीतं द्वादशाङ्गमपि मिथ्याश्रुतमामनन्ति । १ 'यथास्थित' इति क, ख, रा. पुस्तकेषु पाठः ।। २ विशेषावश्यक गाथा ११५ । सदसदविशेषणोद्भवहेतुयदृच्छोपलम्भात् । ज्ञान फलाभावान्मिथ्यादृष्टरज्ञानम् ॥१॥ इति छाया । ३ द्वादस्याङ्गस्य मूलत उपदेष्टा श्रीसर्वज्ञो वीतरागः । यस्य स्वरूपं महात्मानो निरन्तरं ध्यायन्ति । स्वप्रतीत्या च तत्पदप्राप्तिमेव सर्वस्वप्रातिमनुभवन्ति । सर्वज्ञवचनानि संप्रधार्य महाचार्यैस्तद् न्यबन्धि । द्वादशाङ्गनामानि चैवम्-१ आचाराङ्गम् २ सूत्रकृतं ३ स्थानाङ्गं ४ समवाययुक् । ५ पंचमं भगवत्यंगं ६ ज्ञाता धर्मकथापि च ॥१५७|| ७ उपासका ८ न्तकृदनुत्तरोपपातिकादृशाः । १० प्रश्नव्याकरणं चैव ११ विपाकश्रुतमेव च ॥१५८॥ १२ द्वादशं पुनदृष्टिवादः ॥१५९॥ अत्रान्तिमस्य दृष्टिवादस्य व्युच्छेदात् एकादशैवाङ्गानि एकादशाङ्गेतिसंज्ञया श्वेताम्बरेषु प्रसिद्धानि । (आचरणमाचारः । आचर्यते आसेव्यत इति वा शिष्टाचरितो ज्ञानादि 'आदिशब्दादर्शनाचारचारित्राचारतप आचारवीर्याचाराणां ग्रहणम्' आसेवनविधिरित्यर्थः । तत्प्रतिपादको ग्रन्थोऽप्याचारः स चासावङ्गं च । आचाराङ्गम् । तस्य द्वौ श्रुतस्कन्धौ । तत्र प्रथमो नवाध्यायनात्मकः ( तत्र सप्तमाध्यायनम् व्युच्छिन्नम् ) । द्वितीयः षोडशाध्ययनात्मकः । एवं पंचविंशतरेध्ययनानां पंचविंशतिशतसंख्यांकाश्लोकाः । तत्र श्रीशीलांकाचार्यकृतटीका १२००० चूर्णि ८३०० श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा ३६८) श्लोकसंख्या ४५० संपूर्णसंख्या २३२५० श्लोकपरिमिता ।। (२) सूचनात्सूत्रं सूत्रेण स्वपरसमयसूचनेन कृतं सूत्रकृतम् तस्य द्वौ श्रुतस्कंधौ । तत्र प्रथमः षोडशाध्ययनात्मकः द्वितीयः सप्ताध्ययनात्मकः । एवं त्रयोविंशतेरध्ययनानां मूलश्लोकसंख्या २१०० । श्रीशीलांकाचार्यकृतटीका १२८५० चूर्णि १०००० । श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा २०८) श्लोकसंख्या २५० संपूर्णणंख्या २५२०० परिमिता । १५८३ संवत्सरे श्रीहेमविमलसूरिभिर्दीपिका प्रणीता । एतत्संख्या तु पूर्वोक्तसंख्यायां नान्तर्भाविता ।

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320