Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 202
________________ परि. १ स. १६] स्याद्वादरत्नाकरसहितः वस्तुव्यवस्थितिमुपैषि यदि प्रतीत्या ___ बाह्यं तदा किमिति वस्तु पराकरोषि । बालाबलाप्रभृतिरप्यखिलः पदार्थान् बाह्यान् जनो यदवगच्छति पीतमुख्यान् ॥ १८० ॥ मिथ्याप्रतीतिरियमित्यपकर्णनीयं पन्नास्ति काचिदपि बाधकबुद्धिरत्र । मध्यक्षणस्थितिमितिप्रतिभास एव शङ्कथेत बाधकतया न च विद्यतेऽसौ ॥ १८१ ॥ असन् शक्तः कर्तुं कथय किमतो बाधविधुरान् सिताद्यर्थोद्वाराननुभवसुधास्वादजनितान् । अथासन्नप्येष प्रभवति सखे बाधनविधौ न किं बाधेतैवं तव मतमपि ब्रमणि मतिः ।। १८२ ।। इति संग्रहवृत्तानि । अथ केचित्पुनः संविन्मात्रस्याप्यपलापेन सकलशून्यतामाहुः । _____ सापि नोपपद्यते । यतस्तस्याः साधकं किञ्चि- १५ सकलशून्यतामभ्युपगच्छ णत्प्रमाणमस्ति न वा । यदि नास्ति कथं सा तः शूर . खण्डनम् । सिद्धयेत् । प्रमाणनिबन्धनत्वाद्विदुषामिष्टसिद्धेः । अथान्ति, तदा कथं सकलशन्यता । प्रत्यक्षादिप्रमाणस्य तज्जनकस्येन्द्रियाद्देश्च सद्भावे सकलशून्यताविरोधात् । किञ्च । सकलशून्यता प्रमाणप्रमेययोरनुपलब्धितो, विचारात्, प्रसङ्गसाधनाद्वा स्यात् । २० प्रथमपक्षे केयं तयोरनुपलब्धिः । तद्ग्राहकप्रमाणाभाव इति चेत्, सोऽपि किं संशयादयः प्रत्ययाः प्रमाणानुत्पादो वा । तत्राद्यः पक्षो न युक्तः। संशयादिसद्भावाभ्युपगमे सकलशून्यतायाः सलिलाञ्जलिदान १ संग्रहवृत्तानीति पदनिर्देशादेवं प्रतीयते यदिमे श्लोकाः स्वयमन्येन वा कृते संग्रहनन्थे प्रणीता इति । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274