Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 227
________________ २१४ १० प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. १८ चेतनत्वात् ज्ञानाख्यं करणं चेतनत्वेन ताभ्यां विशिष्यत इत्युच्यते । तदप्यनुपपन्नम् । भावरूपयोरिन्द्रियमनसोरपि चेतनत्वात् । तत्परोक्षत्वसाधने च सिद्धसाधनम् । स्वार्थग्रहणशक्तिलक्षणाया भावेन्द्रियमनःस्वभावाया लब्धेरग्दिर्शिनामप्रत्यक्षत्वात् । उपयोगलक्षणं तु भावकरणमप्रत्यक्षं न जातुचिद्भवति । स्वार्थग्रहणन्यापारलक्षणस्यास्य स्वसंवेदनप्रत्यक्षप्रसिद्धत्वात् । चक्षुरादिद्वारेणोपयुक्तोऽहं घटं पश्यामीत्युपयोगस्वरूपसंवेदनस्य सर्वेषामपि प्रसिद्धत्वात् । क्रियायाः करणाविनामावित्वे वात्मनः स्वसंचित्तौ किं करणं स्यात् । स्वात्मैवेति, तदर्थेऽपि स एवास्तु किमदृष्टान्यकल्पनया । स्वात्मनः करणतायामात्मनः शाश्वतत्वाच्छश्वदर्थप्रकाशानुषङ्ग इति चेत् । तत एव तस्य स्वसंवेदनं कुतो न शाश्वतम् । तस्य तद्धर्मत्वादिति चेत्, बहिरर्थप्रकाशनमपि तत एव शाश्वतं. माभूत् । कथं तर्हि शाश्वतयोरात्मज्ञानयोर्धम॑धर्मिभावः पुरुषस्वसंवेदनयोरपि भेदोपगमादिति चेत् इतरत्रापि तुल्यमेतत् । सर्वत्र धर्मधभिणोर्मेदाभेदात्मकतायामविवादात् । स्वसंवेदनमपि पुरुषस्य शाश्वतमिति चेत् । न । श्रोत्रियमतव्याघाताद्देशादिप्रतिनियमानुपपत्तेश्च । यदि पुनरभिव्यञ्जकप्रत्ययवशात्तदभिव्यक्तिप्रतिनियमस्तदा पुरुषस्य शाश्वतार्थप्रकाशनप्रतिनियमोऽपि तथैव स्यात् । किं चैवं सति न किंचिदनित्यमसर्वगतं वा नाम स्यात् । अभिव्यञ्जकवशादेव सर्वस्य देशादिनियमोपपत्तेर्यतः कपिलमतसिद्धिर्न भवेदिति स्वपरप्रकाशके पुरुषे सत्यपार्थक परोक्षज्ञानपरिकल्पनम् । परोक्षेण चक्षुरादिनैव प्रयोजनसिद्धेस्ततश्चक्षुरादिभ्यो विशेषमिच्छता करणज्ञानस्य कर्मत्वेनाप्रतीयमानस्यापि प्रत्यक्षत्वमङ्गीकर्त्तव्यम् । किं चात्मप्रमाणफलाभ्यां सकाशाकरणज्ञानस्य सर्वथा भेदः कथंचिद्वा । न तावत् सर्वथा । मतान्तर प्रसक्तेः । न खलु धर्मधर्मिणोर्भवन्मतेऽपि सर्वथा भेदोऽभ्युपेयते । २५ अथ कथाश्चिद्भेदः । तर्हि न करणज्ञानस्यैकान्तेनाप्रत्यक्षत्वम् । प्रत्यक्ष स्वभावाभ्यामात्मप्रमाणफलाभ्याममिन्नस्य तस्यैकान्ततोऽप्रत्यक्षत्ववि १५ 20 "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274