Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 246
________________ परि. १ सु. १८] स्याद्वादरलाकरसहितः २३३ तथाहि ज्ञानं स्वव्यवसायात्मकं न भवत्यचेतनत्वात् कलशवत् । .. न चात्र हेतुरसिद्धः, अचेतनं ज्ञानं प्रधानसांख्यमतखण्डनम् । परिणामत्वात् कुम्भवत् यत्पुनश्चेतनं तन्न प्रधानपरिणामो यथात्मेत्यतस्तत्सिद्धेः। प्रधानपरिणामत्वमपि नासिद्धम् । प्रकृतेर्महानित्याद्यभिधानात् । प्रकृतेर्हि प्रधानापरनामिकायाः ५ सकलजगत्प्रपञ्चरचनायां प्रवर्तमानायाः प्रथमतो महान् बुद्धयपरपर्याय एको व्यापको विषयाध्यवसायस्वरूप आसप्रलयस्थायी प्रादुर्भवति । आसर्गप्रलयादेका बुद्धिरित्यभिधानात् । स च महानस्मादृशां संवेद्यस्वभावः। ततस्तया प्रतिप्राणिविभिन्ना इन्द्रियमनोवृत्तिद्वारेण बुद्धिवृत्तयो निःसरन्ति । ताः प्रमाणान्तरेण संवेद्यस्वभावाः । प्रतिपुरुषं हीन्द्रिय- १० वृत्तिः प्रथमतो विषयाकारेण परिणमति । ततो मनोवृत्तिद्वारेण बुद्धिवृत्तिरेकतः संक्रान्तविषयाकाराऽन्यतश्च संक्रान्तचिच्छाया सती विषयव्यवस्थापिका भवति । बुद्धौ च दर्पणप्रतिमायां विषयाकारसंक्रमे पुरुषेणार्थश्चेतयितुं शक्यते । बुद्धयध्यवसितमर्थं पुरुषश्चेतयते इत्यभिधानात् । बुद्धयध्यवसितं बुद्धिप्रतिबिम्बितमित्यर्थः । ननु बुद्धिव्यतिरिक्तस्य चैतन्यस्य स्वप्नावस्थायामप्यप्रतीतेरभेद एवेति कथं तत्र तच्छायासंक्रान्तिरिति चेत् , तदसाधीयः । सतोऽप्यनयोविवेकस्य संसर्गविशेषवशाद्विपलब्धेन प्रमात्रा प्रत्येतुमशक्तेरयोगोलकज्वलनविवेकबत् । न चायोगोलकपावकयोरप्यभेद एवेत्यभिधातव्यम् । अनयोरन्योन्यासम्भविरूपस्पर्शविशेषप्रतीतितः परस्परं भेदप्रतीतेः । २० ययोरन्योन्यासम्भवी रूपस्पर्शविशेषः प्रतीयते तयोरन्योन्यं भेदो यथा स्तम्भकुम्भयोरन्योन्यासम्भवी रूपस्पर्शविशेषश्च लोहगोलकज्वलन. योरिति । न चायमसिद्धः । कालायसगोलकगताभ्यामभासुररूपानुष्णस्पर्शाभ्यां सकाशाद्वैश्वानरभासुररूपोष्णस्पर्शयोः प्रत्यक्षेणैव विशेषदर्शनात् । अतो यथाऽत्र परस्परप्रदेशानुप्रवेशलक्षणसंसर्गाद्विपलब्धः २५ प्रमाता भेदं नावधारयत्येवं बुद्धिचैतन्ययोरपि । यथोक्तमीश्वरकृष्णोन "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274