________________
परि. १ सु. १८] स्याद्वादरलाकरसहितः
२३३ तथाहि ज्ञानं स्वव्यवसायात्मकं न भवत्यचेतनत्वात् कलशवत् ।
.. न चात्र हेतुरसिद्धः, अचेतनं ज्ञानं प्रधानसांख्यमतखण्डनम् ।
परिणामत्वात् कुम्भवत् यत्पुनश्चेतनं तन्न प्रधानपरिणामो यथात्मेत्यतस्तत्सिद्धेः। प्रधानपरिणामत्वमपि नासिद्धम् । प्रकृतेर्महानित्याद्यभिधानात् । प्रकृतेर्हि प्रधानापरनामिकायाः ५ सकलजगत्प्रपञ्चरचनायां प्रवर्तमानायाः प्रथमतो महान् बुद्धयपरपर्याय एको व्यापको विषयाध्यवसायस्वरूप आसप्रलयस्थायी प्रादुर्भवति । आसर्गप्रलयादेका बुद्धिरित्यभिधानात् । स च महानस्मादृशां संवेद्यस्वभावः। ततस्तया प्रतिप्राणिविभिन्ना इन्द्रियमनोवृत्तिद्वारेण बुद्धिवृत्तयो निःसरन्ति । ताः प्रमाणान्तरेण संवेद्यस्वभावाः । प्रतिपुरुषं हीन्द्रिय- १० वृत्तिः प्रथमतो विषयाकारेण परिणमति । ततो मनोवृत्तिद्वारेण बुद्धिवृत्तिरेकतः संक्रान्तविषयाकाराऽन्यतश्च संक्रान्तचिच्छाया सती विषयव्यवस्थापिका भवति । बुद्धौ च दर्पणप्रतिमायां विषयाकारसंक्रमे पुरुषेणार्थश्चेतयितुं शक्यते । बुद्धयध्यवसितमर्थं पुरुषश्चेतयते इत्यभिधानात् । बुद्धयध्यवसितं बुद्धिप्रतिबिम्बितमित्यर्थः । ननु बुद्धिव्यतिरिक्तस्य चैतन्यस्य स्वप्नावस्थायामप्यप्रतीतेरभेद एवेति कथं तत्र तच्छायासंक्रान्तिरिति चेत् , तदसाधीयः । सतोऽप्यनयोविवेकस्य संसर्गविशेषवशाद्विपलब्धेन प्रमात्रा प्रत्येतुमशक्तेरयोगोलकज्वलनविवेकबत् । न चायोगोलकपावकयोरप्यभेद एवेत्यभिधातव्यम् । अनयोरन्योन्यासम्भविरूपस्पर्शविशेषप्रतीतितः परस्परं भेदप्रतीतेः । २० ययोरन्योन्यासम्भवी रूपस्पर्शविशेषः प्रतीयते तयोरन्योन्यं भेदो यथा स्तम्भकुम्भयोरन्योन्यासम्भवी रूपस्पर्शविशेषश्च लोहगोलकज्वलन. योरिति । न चायमसिद्धः । कालायसगोलकगताभ्यामभासुररूपानुष्णस्पर्शाभ्यां सकाशाद्वैश्वानरभासुररूपोष्णस्पर्शयोः प्रत्यक्षेणैव विशेषदर्शनात् । अतो यथाऽत्र परस्परप्रदेशानुप्रवेशलक्षणसंसर्गाद्विपलब्धः २५ प्रमाता भेदं नावधारयत्येवं बुद्धिचैतन्ययोरपि । यथोक्तमीश्वरकृष्णोन
"Aho Shrut Gyanam"