SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १.सू. १८ वह्निमत्त्वस्य साध्यस्य दृष्टान्तीकृते महानसे सर्वथाऽप्यसम्भवात् । द्वितीयकल्पोऽपि न पेशलः महानसवहेमहीधरकन्धरायामसम्भवात् । सम्भवे वा महानसवहिरेवासौ न भवेत् । तस्मादप्रतिहतामनुमानसरणिमनुसरता सामान्येनैव साध्यमनुमाने स्वीकर्तव्यम् । न पुनर्विशेषविकल्पकल्पनया विलोपनीयमिति । तदेवं सकलदोषकलङ्कविकलतया स्वप्रकाशात्मकत्वसाधनस्य सम्यग्रूपत्वात् तेन प्रकरणसमत्वं वेद्यत्वादिति हेतोः तद्वस्थमेव । तथा ज्ञानं स्वप्रकाशात्मकं ज्ञानत्वात् यत्पुनः स्वप्रकाशात्मकं न भवति न तज्ज्ञानं यथा चक्षुरादीत्यनेनापि प्रकरणसमत्वमनिवार्यम् । यश्चायमुपालम्भः, किं येनैव स्वभावेन ज्ञानं स्वरूपं प्रकाशयति तेनैवार्थमपीत्यादि । स भेदाभेदैकान्तवादिन एवानुबाधते न स्याद्वादिनः । तैर्यथाप्रतीति भेदाभेदाभ्युपगमात् । स्वपरप्रकाशकस्वभावद्वयात् कथञ्चिदभिन्नस्यैकस्य ज्ञानस्य प्रतिपत्तेः । सर्वथा ततस्तस्य भेदाभेदयोरसम्भवात् । तत्पक्षभाविदूषणस्य निर्विषयत्वात् दूषणाभासतोपपत्तेः । परिकल्पितयोस्तु भेदाभेदैकान्तयोर्दूषणस्य प्रवृत्तौ सर्वत्र प्रवृत्तिप्रसङ्गात् कस्यचिदिष्टतत्त्वव्यवस्थानुपपत्तेः स्वपरप्रकाशको च स्वभावौ ज्ञानस्य स्वपरप्रकाशनशक्ती कथ्यते । तद्रूपतया चास्य परोक्षता तत्प्रकाशनलक्षणकार्यानुमेयत्वात्तयोरिति । किं तौ स्वप्रकाशौ स्वाश्रयभूतज्ञानप्रकाश्यौ वेत्यादिप्राक्प्रकाशितदोष राशेरनवकाश एवेति सर्वं पुष्कलम् । .. २० इत्येवं ज्ञानमेतत्समसिधदखिलं स्वेन संवेदनीयं . प्रौढोपन्यस्तयुक्तिव्यतिकरवशतः पश्यतां प्राश्निकानाम् ।। योगानामेष तस्मान्निखिलशिथिलितन्यायमूलप्रबन्धः स्वाग्राहिज्ञानपक्षः सपदि निपतितश्छिन्नवृक्षो यथात्र ॥२४१॥ २५ ज्ञानान्तरज्ञेयमिति प्रतिज्ञा यौगीमवज्ञाय समर्थयुक्त्या ॥ सङ्ख्याविदामत्युपहासपात्रं साङ्ख्याशयं सम्प्रति कीर्तयामः ॥२४२ ॥ "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy