________________
२३१
परि. १ स. १८] स्याद्वादरत्नाकरसहितः तेनैव स्वमिति वदतां स्वात्मनि क्रियाविरोध एव । परिच्छेद्यस्य रूपस्य सर्वथा परिच्छेदकस्वरूपादभिन्नस्योपगतेः । कथंचिद्धेदवादिनां तु नायं दोषः । अथ क्रियाकरणं निष्पादनं तच्च स्वात्मनि विरुद्धमित्यभिमतम् । मैयम् । न खलु ज्ञानमात्मानं निष्पादयतीति वयमभ्युपेमः स्वकारणादेव तस्योत्पत्तेः। अपि तु प्रदीपवज्ञानमात्मानं प्रकाशयतीति। ५ न च स्वरूपप्रकाशकत्वं प्रदीपस्यासिद्धम् । यथैव हि रूपज्ञानोत्पत्तौ प्रदीपः सहकारित्वाच्चक्षुषा रूपप्रकाशकः कथ्यते तथा स्वरूपज्ञानोत्पत्तौ तस्य सहकारित्वात् स्वरूपप्रकाशकोऽपीति । अथार्थवज्ज्ञाने ज्ञानस्वरूपस्याप्रतीतेने स्वसंविदितत्वमित्युच्यते । एतदप्ययुक्तम् । अर्थवदिति हि कोऽर्थः । किं यथार्थों बहिर्देशसम्बद्धः प्रतीयते न १० तथा ज्ञानं, किं वा यथार्थोन्मुख ज्ञानं न तथा स्वोन्मुखमिति । आद्यपक्षे सिद्धसाधनम् । घटाद्यर्थज्ञानयोहिरन्तर्देशसम्बद्धतयाऽवमासनात् । यदि तु घटाद्यर्थदेशसम्बद्धतया ज्ञानस्याप्रतिभासनादप्रत्यक्षत्वमित्यङ्गीक्रियते । तर्हि घटाद्यर्थस्यापि ज्ञानदेशसम्बद्धतयाऽप्रतिभासादप्रत्यक्षता स्यात् । द्वितीयपक्षोऽप्यनुपपन्नः, घटमहमात्मना १५ वेमीत्यत्रार्थस्येव ज्ञानस्यापि प्रतिभासविलोपेऽर्थप्रतिभासेऽपि कः समाश्वासः । यदपि जल्पितं प्रकाशात्मकत्वं बोधरूपत्वं भासुररूपसम्बन्धित्वं वेत्यादि । तदपि परिफल्गु । यतः प्रकाशात्मकत्वं स्वपररूपोद्योतनसमर्थस्वरूपत्वमुच्यते तच्च क्वचिोधरूपतया कचिद्भासुररूपसम्बन्धितया वा सम्भवन्न विरोधमध्यास्ते । ततो न प्रदीपदृष्टान्तस्य २० साध्यविकलत्वम् । नापि पक्षस्य प्रत्यक्षबाधितत्वम् । यदि चैवं साध्यं विकल्प्य दूष्यते । तर्हि समस्तानुमानमुद्राभङ्गप्रसङ्गः । तथाहि । सकलजनप्रतीते धूमाद्भूमध्वजविशिष्टपर्वतानुमानेऽप्येवं वक्तुं शक्यत एव । किमत्र धूमवत्त्वादिति हेतोः पर्वतवह्निना वहिमत्त्वं साध्यते महानसवहिना वा । औद्यकल्पे साध्यविकलत्वं दृष्टान्तस्य पर्वतवह्निना २५
१. प्रदीप एव' इति प. पुस्तके पाठः । २ ' चक्षुषो' इति भ. म. पुस्तकयोः पाठः । ३ 'आधविकल्पे' इति भ. म. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"