________________
२३०
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. १८ मभ्युपगच्छामः किन्तु वस्तुव्यवसायिनीम् । न चात्र विषयभेदाज्ञानभेदकल्पनोपपत्तिमती । समानेन्द्रियग्राह्ये योग्यदेशावस्थितेऽर्थे घटपटादिवदेकस्यादि ज्ञानस्य व्यापारविरोधात् । न च घटादावपि ज्ञानभेद इति. वाच्यम् । ज्ञानानां युगपद्भावानभ्युपगमात् । क्रमभावे च प्रतीतिविरोधः । ५ युगपद्भावाभ्युपगमे च विशेषणविशेष्यज्ञानयोः सव्येतरविषाणवत्कार्य
कारणभावाभावः । ततो विशेष्यज्ञानं विशेषणविशेष्योभयालम्बनमेव नतु विशेषणज्ञानेन जन्यमानत्वात् केवल विशेष्यालम्बनमिति । अपि च यदि विशेषणज्ञानं करणं विशेष्यज्ञानं तु ज्ञानक्रियोच्यते । तदापि विशेषणज्ञाने कस्य करणतां वक्ष्यसि । नहि तत्रापरं विशेषणज्ञानं करणमस्ति । अथास्त्येव दण्डादिज्ञाने दण्डत्वादिजातिज्ञानम्, दण्डत्वादिजातिज्ञाने तर्हि कतरत्कथयति।ततो न विशेषणविशेष्यज्ञानयोः करणक्रियात्वे वक्तव्ये किन्त्वेकज्ञानस्वरूप एव । अस्थास्त्वेवम्, न च विरोधस्तथाप्रतीतेः। कर्मत्वेनाप्यत एवाविरोधोऽस्तु । विशेषाभावात् ।
चक्षुरादिकरणं ज्ञानक्रियातो भिन्नमेवेति चेत्, न ज्ञानेनार्थं जानामीत्यपि १५ प्रतीतेः । ज्ञायतेऽनेनेति ज्ञानं चक्षुराद्येव ज्ञानक्रियायाः साधकतम
करणमिति चेत्, न तस्य साधकतमत्वनिराकरणातंत्रज्ञानस्यैव साधकतमत्वोपपत्तेः । ननु यदेवार्थस्य ज्ञानक्रियायां ज्ञानं करणं सैव ज्ञानक्रिया तत्र कथं क्रियाकरणव्यवहारः प्रातीतिकः स्यात् । विरो
धादिति चेत्, न कथञ्चिद्भेदात् । प्रमातुरात्मनो हि वस्तुपरिच्छित्तौ २० साधकतमत्वेन व्यापृतं रूपं करणम् । निर्व्यापारं तु क्रियोच्यते
स्वातन्त्र्येण पुनर्व्याप्रियमाणः कर्त्तात्मेति । तेन ज्ञानात्मक एवात्मा ज्ञानात्मनाथ जानामीति कर्तृकरणक्रियाविकल्पः प्रतीतिसिद्ध एव । तद्वत्तत्र कर्मव्यवहारोऽपि ज्ञानात्मात्मनात्मानं जानातीति घटते ।
सर्वथा कर्तृकरणकर्मक्रियाणामभेदानभ्युपगमात् । तासां कर्तृत्वादि२५ शक्तिनिमित्तत्वात् कथञ्चिद्भेदसिद्धेः। ततो ज्ञानं येनात्मनार्थं जानाति
१. हि कतमत्कथयसि' इति भ. म. पुस्तकयोः पाठः। २ 'तत्र' इति नास्ति म. म. पुस्तकयोः पाठः । ३. क्रियाकरणत्वं ' इति म. पुस्तके पाठः।
"Aho Shrut Gyanam"