________________
परि. १ सू. १८] स्याद्वादरत्नाकरसहितः
२२९ भिन्नं कर्मत्वम् । तर्हि कथं तत्र ज्ञानस्य जानातीति क्रिया स्वात्मनि स्यायेन विरुद्धयते । कथमन्यथा कटं करोतीति क्रियाऽपि कटकारस्य स्वात्मनि न स्यात् यतो न विरुध्यते । कर्तुः कर्मत्वं कथञ्चिगिन्नमित्येतस्मिंस्तु दर्शने ज्ञानस्यात्मनो वा सर्वथा स्वात्मनि क्रिया दूरोत्सारितैवेति न विरुद्धतामधिवसतीति । कश्च क्रियायाः स्वात्मा ५ यत्र विरोधः स्यात् । किं क्रियास्वरूपं क्रियावदात्मा वा । यदि क्रियास्वरूपम् , तदा कथं तत्र तद्विरोधः सर्वस्य वस्तुनः स्वरूपेण विरोधानुषक्तेनिस्स्वरूपत्वप्रसङ्गात् । क्रियावदात्मा चेत्तत्र विरोधे क्रियाया निराश्रयत्वं सर्वद्रव्यस्य वा निष्क्रियत्वमुपढौकेत । न चैवम् । कर्मस्थायाः क्रियायाः कर्मणि कर्तृस्थायाः कर्तरि प्रतीयमानत्वात् । १० यदि पुनर्ज्ञानक्रियायाः कर्तृसमवायिन्याः स्वात्मनि कर्मतया विरोधस्ततोऽन्यत्रैव कर्मत्वदर्शनादिति मैतम्, तदा ज्ञानेनार्थमहं जानामीत्यत्र ज्ञानस्थ करणतयाऽपि विरोधः स्यात् । क्रियातोऽन्यस्य करणत्वदर्शनात् । ज्ञान क्रियायाः करणज्ञानस्य चान्यत्वादविरोध इति चेत् । किं पुनः करणज्ञानं का वा ज्ञानक्रिया । विशेषणज्ञानं करण विशे- १५ प्यज्ञानं तत्फलत्वात् ज्ञानक्रियेति चेत् , स्यादेवं यदि विशेषणज्ञानेन विशेष्यं जानामीति प्रतीतिरुत्पद्यते । न च कस्यचिदुत्पद्यते । विशेषण- .. ज्ञानेन विशेषणं विशेप्यज्ञानेन च विशेष्यं जानामीत्यनुभवात् । नन्वेवं कथं दाण्डिनं वेनीति दण्डविशिष्टपुरुषप्रतिपत्तिः । पूर्वं दण्डाग्रहे हि पुरुषमात्रप्रतीतिरेव स्यादन्यथा दण्डरहितपुरुषेऽपि तत्प्रतीतिप्रसङ्गः। २० न खलु विशेषणं सत्तामात्रेण स्वानुरक्तां धियमुत्पादयत्यपि तु गृहीतमिति । तन्न वाच्यम् । यतो दण्डविशिष्टे पुंसि प्रवर्त्तमाना बुद्धिः सकृदेव तथाभूतं पुमांसं प्रत्येति न पूर्वं दण्डग्रहणमपेक्षते । दण्डरहिते च पुंसि दण्डविशेषणवैशिष्टयमेव पुंसो नास्तीति कुतस्तत्र तथाविधबुद्धिप्रादुर्भावप्रसङ्गः स्यात् । न खलु वयमसद्वस्तुव्यवसायिनी बुद्धि- २५
१ 'अभिमतम् ' इति म. पुस्तके पाठः ।
"Aho Shrut Gyanam"