________________
२२८.
प्रमाणनयतवालोकालङ्कारः
[ परि. १ सू. १.
अत्रोच्यते—
विक्रीय मातरं मोहात्क्रीत्वा दासीममङ्गलम् | प्रशंसत्ययमात्मानं धृष्टः स्वमतिकौशले ॥ २३९॥
तथाहि समानकालयाबद्द्रव्यभाविसजातीयगुणद्वयस्यान्यत्रानुपलब्धे५ स्त्र्यम्बकेऽपि तत्कल्पनाया असम्भवः । तथा च प्रयोगः । ईश्वरः समानकालयावद्द्रव्यभाविसजातीयगुणद्वयस्याधारो न भवति द्रव्यत्वात् यदित्थं तदित्थं यथा घटस्तथा चायं तस्मात् तथा । किं चानयोर्ज्ञानयोः पिनाकपाणेः सर्वथा भेदे कथं तदीयत्वसिद्धिः । तत्र समवायादिति चेत्, तन्न समवायस्य पदार्थपरीक्षायां प्रतिक्षेप्स्यमान१० त्वात् । ततश्च ।
अलीकवाचालतयाऽतिचापलं यदत्र विद्वन्ननु शीलितं त्वया || नवीननैयायिक वक्ति केवलं त्वदीयबुद्धेस्तदतीव कुण्ठताम् ॥ २४० ॥
किञ्च का नाम क्रिया स्वात्मनि विरुध्यते । परिस्पन्दात्मिका धात्वर्थस्वभावा वा । न तावत्परिस्पन्दात्मिका । तस्या द्रव्यवृत्तित्वेना१५ द्रव्यरूपे ज्ञाने सत्त्वस्यैवासम्भवात् । अथ धात्वर्थरूपा । साप्यकर्मिका सकम्मिका वा । न तावदकर्मिका । यदि वृक्षस्तिष्ठतीत्यादौ तस्याः स्वात्मन्येव वृक्षादिस्वरूपे प्रतीतितोऽस्यास्तत्राविरोधः तर्हि ज्ञानं प्रकाशत इत्यादेरप्य कर्म्म कक्रियाया ज्ञानस्वरूपेऽविरोधोऽस्तु । प्रतीतेरुभयत्राप्यविशिष्टत्वात् । अथ ज्ञानमात्मानं जानातीति सकर्मिका क्रिया २० स्वात्मनि विरुद्धा | स्वरूपादपरत्रैव कर्मत्वप्रतीतेरित्युच्यते । तदपि कल्पनामात्रम् । आत्मात्मानं हन्ति प्रदीपः स्वात्मानं प्रकाशयतीत्यादिकाया अपि क्रियाया विरोधापतेः । कर्तृस्वरूपस्य कर्मत्वेनोपचारात् नात्र परमार्थिकं कर्मेति चेत् । समानमन्यत्र । ज्ञाने कर्तरि स्वरूपस्यैव ज्ञानक्रियायाः कर्मत्वेनोपचारात् । तात्त्विकमेव ज्ञाने कर्मत्वं २५ प्रमेयत्वात् तस्येति चेत् । तद्यदि सर्वथा कर्तुर्ज्ञानादभिन्नं तदा विरोधः । यदि ज्ञानं कर्तृ कथं कर्म्म तचेत्कथं कत्रिति । अथ सर्वथा
"Aho Shrut Gyanam"