________________
२२७
परि. १ सू. १८] स्याद्वादरत्नाकरसहितः पक्षस्य प्रत्यक्षबाधितत्वं दोष इति । तन्न समीचीनम् । स्वपरव्यवसायामकस्य ज्ञानस्य सर्वैरनुभूतेः । एवं चार्थप्रकाशात्मकत्वादिति हेतोः कालात्ययापदिष्टतापि प्रत्यादिष्टा । पक्षस्य प्रत्यक्षेण बोधनात् । यत्पुनरुक्तं स्वात्मनि क्रियाविरोधान्नायं पक्षः संभवीति । तत्र स्वदर्शनप्रसिद्धमपि त्रिनयनसंवेदनं सकलजनप्रतीतमपि वा प्रदीपाद्यालोकं ५ स्वपरप्रकाशकं किन्नावधारयत्यायुष्मान् येनैवमात्मानमायासयति । न हि त्रिनयनज्ञानं स्वप्रकाशे ज्ञानान्तरमपेक्षते स्वपरावभासकमेक नित्यज्ञानं जगत्कर्तुरित्यभ्युपगमात् । नापि प्रदीपाद्यालोकः स्वरूपप्रकाशने प्रकाशान्तरमपेक्षते प्रतीतिविरोधात् ।
अथ कथमपि मुक्त्वा मूलनैयायिकानां
मतमभिमतमेतद्दषणैर्दूयमानम् ।। गुरुतममतिात्कल्पयित्वात्र कश्चित्
__निजमतमिदमाह न्यायवादी नवीनः ॥ २३६ ॥ चन्द्रचूलज्ञानमपि ज्ञानान्तरप्रत्यक्षं न स्वसंविदितमिति । न चैवं
__ तज्ज्ञानग्राहिणो ज्ञानान्तरस्यापि ज्ञानान्तर- १५ नव्यनैयायिकमतखण्डनम्।
'प्रत्यक्षत्वेनानवस्थितिरित्यभिधातव्यम् । ज्ञानद्वयेनैव साध्यसिद्धेरपरज्ञानकल्पनायाः कपालिनि निरुपयोगत्वात् । तथाहिएकस्माज्ज्ञानतोऽयं कलयति भुवनं साकमन्येन तेन
द्वैतीयीकात्तु तस्मात्कलयति यतस्तस्य च ग्राहकं तत् । २० एवं च ज्ञानयुग्मे त्रिपुरजिति सति कानवस्थाव्यवस्था
यौष्माकीणः क्व वाऽयं कथयत भवति स्वप्रकाशप्रसङ्गः।।२३७॥ ततश्च
ज्ञप्तिरूपक्रियाया यो विरोधः स्वात्मनीरितः ।
जैनधूर्जटिबुद्धौ नः स तेषां तदवस्थितः ॥ २३८ ॥ २५ १ 'द्वैतीकात्' इति पदे यकारोत्तरवर्तिन इकारस्य दीर्घत्वं छन्दोऽनुराधोत्।
"Aho Shrut Gyanam"