SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स. १८ १० इत्यक्षपादः। विनश्यवस्थस्य त्वविनश्यता सहावस्थानं न विरुद्धमिति चेत् । ननु तस्यामवस्थायां विज्ञानं विनाशक्रिया केनचिदंशेन समाविशति न वा । न चेत्कथं विनश्यदवस्थेति वर्तमानकालतानिर्देशः स्याद्वितीयक्षणभावित्वाद्विनाशक्रियायाः । अथ कुशूलाद्यवस्थायामेकान्तेनासत्यपि कुम्भे कुम्भोऽयमुत्पद्यत इति वर्त्तमानकालतानिर्देशो दृष्टः । मैवम् । अत एव निर्देशात्तदानीं कथंचित् कुम्भस्योत्पत्तिप्रसिद्धरन्यथा तदघटनात् । एवं च ब्रुवते लौकिकाः अद्याप्यर्द्धनिष्पन्नः कुम्भः किमित्येनं परिपूर्ण न करोषीति केनचिदंशेन तद्यनश्यत् सोऽशोऽस्य द्वितीयज्ञानेन नाज्ञायतेति न कदाचित्परिपूर्णस्यास्य संवित्तिः स्यात् । न चैवं नीलमहं विलोकयामीति सकलस्यास्य संवित्तेः । किञ्च त्वन्मतेऽस्यांशतो विनाश एव न युज्यते । तस्य निरंशत्वेन स्वीकारात् । अथ नानुवर्तते तर्हि कस्योत्तरसमयभाविज्ञानं ग्राहकं स्यात् । ग्राह्यप्राक्तनज्ञानस्य प्रागेव क्षीण त्वात् । किञ्चेन्द्रियजं प्रत्यक्षं सन्निकृष्ट विषये प्रवर्ततेऽतीतक्षणवर्ति१५ नश्च ज्ञानस्य मनोलक्षणेन्द्रियसन्निकर्षों न युज्यते । ततः कथं प्राचीनज्ञाने मानसप्रत्यक्षवार्तापि स्यात्। यद्यप्युक्तमर्थजिज्ञासायां तु ज्ञान इति । एतदप्यघटमानम् । ज्ञानस्य जिज्ञासाप्रभवत्वासम्भवात् । नष्टतुरङ्गमस्य पुंसः सत्यामपि तुरङ्गमदिक्षायां तुरङ्गमदर्शनानुत्पादादसत्यामपि च स्तम्बेरैमदिदृक्षायां स्तम्बरेमदर्शनोत्पादात् । किञ्च ज्ञानस्य ज्ञानान्तरवेद्यतायामर्थज्ञानं नैव भवेत् । प्रकाशस्य प्रकाशापेक्षायामप्रकाशतावत् । न हि स्वपरज्ञाने परमुखप्रेक्षित्वं पारेत्यज्यापरं जडस्य लक्षणम् । यदपि ज्ञानं स्वप्रकाशात्मकमित्याद्यनुमाने स्वप्रकाशात्मकत्वं साध्य विकल्प्य दूषितं किं स्वेनात्मनैव स्वस्य प्रकाशः स्वकीयेन वेत्यादिना । तत्र द्वैतीयिकविकल्पोऽनङ्गीकारेणैव निरस्तः । स्वेनात्मनैव स्वस्य , प्रकाश इत्ययं तु प्रथमपक्षः कक्षीक्रियत एव । तत्र च यदुक्तं १ स्तम्बरमः-हस्ती । २ अनुमानं ' इति म. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy