SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १८] स्याद्वादरत्नाकरसहितः २२५ सिद्धौ चात्मनश्चेतनासमवाय इति । यावन्नात्मनश्चेतनासमवायस्तावन्न चेतनत्वसिद्धिर्यावन्नासौ तावन्न तत्प्रभवत्वेन ज्ञानस्य चेतनात्वसिद्धिर्यावच्च नेय तावन्नात्मनश्चेतनासमवाय इति । तस्मान्न स्वसंविदितत्वं विहाय बुद्धेरर्थग्रहणं घटते । किञ्चार्थबुद्धिरित्यत्र किमर्थस्यैव ग्रहणं बुद्धिरिति व्याख्यायते किंवार्थस्थापीति । तत्र प्रथमपक्षः प्रत्यक्षविरुद्धः। ५ नीलमहमात्मना जानामीत्यत्र नीलमित्युल्लेखेनार्थग्रहणवदात्मनेत्युल्लेखेन ज्ञानग्रहणस्याप्यनुभवात् । न हि नीलसंवेदनाद्भिन्नकालं तदात्मसंवेदनं वेद्यते । तत्संवेदनसमकालमेवान्तःपरिस्फुटरूपस्यास्यानुभवात् । अतोऽर्थसंवेदनात्तदात्मसंवेदनस्याभिन्नस्वभावत्वात्तत्संवेदने तदपि संविदितमिति स्वसंवेदनसिद्धिः यद्यस्मादभिन्नस्वभावं तस्मिन् गृह्यमाणे १० तद्गृहीतमेव । यथा नीले गृह्यमाणे तस्यैव स्वरूपसन्निवेशादिकम् । अर्थसंवेदनादभिन्नस्वभावं च तदात्मसंवेदनमिति । अथार्थस्यापि ग्रहणमिति व्याख्यायते । तर्हि सिद्धं नः समीहितं स्वसंवेदनाप्रतिक्षेपात् । एवं च स्वसंवेदनप्रत्यक्षेणैव ज्ञानस्य स्वव्यवसायिस्वरूपत्वसिद्धेः प्रत्यक्षबाधितकर्मानन्तरोपदिष्टत्वेन वेद्यत्वादिति हेतोः कालात्यया- १५ पदिष्टत्वं तवस्थमेवेति स्थितम् । यच्चोक्तं ग्रहणं पुनरस्येत्यादि । तदप्ययुक्तम् । विच्छिन्नप्रतिभासाभावात् । न खलु प्रागर्थज्ञानं पश्चात्तज्ज्ञानज्ञानमिति नान्तरा प्रतीतिरनुभूयते । यत्पुनरुक्तमनयोः क्रमसमुत्पादेऽप्याशुवृत्तेरित्यादि । तदतीवानुपपन्नम् । एवं हि समस्तार्थानां कथं क्षणभङ्गुरता न स्यात् सत्यामप्यस्यामाशुवृत्तेरेकत्वानध्य- २० वसाय इति सौगतेनापि वक्तुं शक्यत्वात् । अपि च । उत्तरकालीनस्वग्राहकज्ञानकाले प्राचीनमर्थज्ञानमनुवर्त्तते न वा । यद्यनुवर्तते, तदा युक्तिप्रतीतिविरोधी ज्ञानयोगपद्यप्रसङ्गः । सिद्धान्तविरोधी चायं भवतः । त्वया ज्ञानद्वयस्य युगपदनभ्युपगमात् । अथ युगपज्ज्ञानद्वयस्योत्पत्तिरेव विरुध्यते । तथा च "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" २५ १ गौतमस. १-१-१६. १५ "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy