SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ _प्रमाणनयतत्त्वालाकालङ्कारः परि.१ सू. १८ एतदपि दृश्यमिति चेत्, तथापि सिद्धसाध्यता । स्मृतिरूपेणैकशरीरवर्तिनास्मदादिज्ञानान्तरेण अतीतज्ञानस्य वेदत्वाभ्युपगमात् । वर्तमानस्य ज्ञानस्यैकशरीरवय॑स्मदादिज्ञानान्तरवेद्यत्वं साध्यत इति चेत् । तन्न,वर्तमाने ज्ञाने ज्ञानान्तरस्यासम्भवात् । युगपज्ज्ञानानुत्पत्तेर्मनसो लिङ्गत्वेनाङ्गीकरणात् । विवक्षितज्ञानोत्पत्त्यनन्तरभाव्येकशरीरवर्त्यस्मदादिज्ञानान्तरेण विवक्षितज्ञानस्य विनश्यदवस्थस्य वेद्यत्वं साध्यत इति चेत्, तहनैकान्तिकत्वं हेतोःसर्वेषां विद्यानां नियमेनोत्पत्त्यनन्तरभाव्येकशरीरवहँस्मदादिज्ञानान्तरवेद्यत्वाभावात् । अथ किभेताभिः कल्पनाभिर्ज्ञानं ज्ञानान्तरेणैव वेद्यमित्यवधारणगर्भ साध्यमभिप्रेयते ततो न सिद्धसाध्यताद्यवतार इति चेत् । मैवम् । एवमपि दृष्टान्ते साध्यवैकल्यकलङ्कस्याप्रतिहतप्रसरत्वात् । न खलु कलशो ज्ञानान्तरेणैव वेद्यः । प्रथमज्ञानेनापि तस्य वेद्यत्वात् । न च तदपि कलशस्वरूपात्पार्थक्येन ज्ञानान्तरमिति वाच्यम् । अन्तरशब्दस्य सजातीयापेक्षथैव भेदवाचकत्वा दित्युक्तत्वात् । यदप्यवादि अर्थग्रहणबुद्धिश्चेतनेति । तदप्यविचारित१५ रमणीयम् । स्वसंविदितत्वाभावे ज्ञानेऽर्थग्रहणस्थैवासम्भवात् । अर्थग्रहणत्वं हि ज्ञानेऽर्थादुत्पत्तेश्चेतनास्वरूपत्वतो वा भवेत् । यत्रे यद्याद्रुत्पत्तेर्ज्ञाने तदनुमन्यते, तर्हि पटेऽप्यनुमन्यतां मृद्दण्डचक्रचीवराधादुत्पत्तेरविशेषात् । अथ चेतनास्वरूपत्वतः, ननु कुतो ज्ञानस्य चेतनात्वसिद्धिरर्थग्रहणाच्चेतनात्मप्रभवत्वाद्वा । अर्थग्रहणाच्चेत्, परस्पराश्रयः । सिद्धे ह्यर्थग्रहणे चेतनात्वसिद्धिस्तसिद्धेश्वार्थग्रहणसिद्धिरिति । अथ चेतनात्मप्रभक्त्वात् , नन्वात्मनोऽपि कुतश्चेतनत्वं सिद्धयेत् , चेतनासमवायात्स्वतो वा । यदि स्वतः, तदापसिद्धान्तप्रसङ्गः । स्वरूपेण तस्य भवद्भिर्जडत्वेन स्वीकरणात् । अथ चेतना समवायात् , तर्हि चक्रकापत्तिः । तथाहि चेतनासमवायादात्मन२५ श्चेतनत्वसिद्धिस्तत्सिद्धौ च तत्प्रभवत्वेन ज्ञानस्य चेतनात्वसिद्धिस्त १' तत्र' इति म. पुस्तके पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy