Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 257
________________ २४४ प्रमाणनयतत्वालोकालङ्कारः [परि.. १ सू. २१ तस्मान्न सन्ति केचन कारणगुणाः । न चेन्द्रियनैर्मल्यादिरेव गुण इति वाच्यम् । नैर्मल्यादिकं हि नयनादीन्द्रियाणां स्वरूयं न पुनः स्वरूपातिरिक्तो गुणः । नैर्मल्यव्यपदेशस्तु लोचनादेर्दोषाभावनिबन्धनः । तथाहि काचकाभलादिदोषाणामसत्त्वान्निर्मलमिन्द्रियं तेषां सत्त्वे ५ पुनः सदोषमिति व्यपदिश्यते । अतस्तिमिरादीनामभावः स्वरूपमेवेन्द्रियस्य तत्सद्भावस्तु दोषः । मनसोऽपि निद्राद्यभावः स्वरूपं तत्सद्भावस्तु दोषः । विषयस्यापि निश्चलत्वादिकं स्वरूपं चञ्चलत्वादिकस्तु दोषः । प्रमातुरपि बुभुक्षाद्यभावः स्वरूपं तत्सद्भावस्तु दोषः । न चैतद्वाच्यं विज्ञानजनकानां स्वरूपमयथार्थोपलब्ध्या समाधिगतम् । १० यथार्थत्वं तु पूर्वस्मात्कारणकलापादनुपजायमानं गुणाख्यं सामग्र्यन्तरं परिकल्पयतीति । यतोऽत्र लोकः प्रमाणम् । न चासौ मिथ्याज्ञानाकारणस्वरूपमनुमिनोति किन्तु सम्यग्ज्ञानात् । एवं ‘च गुणानामसम्भवात्कथं तेभ्यः समुत्पद्यमानं प्रामाण्यं परतः समुत्पात इति । मुग्धधिया गदिता भवताऽमी शुश्रुविरे सकलाः कुविकल्पाः । जैनमतामृतपूतमतीनामुत्तरकेलिमतः शृणु सम्यक् ।। २४९ ॥ तथाहि । यत्तावदुक्तम् अध्यक्षमक्षादिनिमित्तसंगतान् गुणान् ग्रहीतुं पटुतापुरःसरान् इत्यादि । तत्र किमिन्द्रिये परोक्षशक्तिरूपे गुणानां प्रत्यक्षेणानुपलम्भादभावः साध्यते, आहोस्वित्प्रत्यक्षे चक्षुर्गोलकादौ बाह्यरूपे । प्रथमपक्षे गुणवदोषाणामप्यभावः प्रसज्यते। परोक्षशक्तिरूपे इन्द्रिये अनुपलम्भस्य तुल्यत्वात् । द्वितीयपक्षेऽपि किमात्मप्रत्यक्षेण चक्षुर्गोलकादौ गुणानामनुपलम्भः परप्रत्यक्षेण वा । यद्यास्मप्रत्यक्षेण, तर्हि तेन दोषाणामप्यनुपलम्भात्तत्र सत्त्वं न स्यात् । स्पार्शनप्रत्यक्षेणात्मीयेन स्वचक्षुर्गोलकादिमात्रस्यैवावसायात् । अपर प्रत्यक्षेण चेदनुपलम्भः । नन्वसिद्धमेतत् , यथैव हि काचकामलादयो २५ दोषाः परचक्षुर्गोलकादौ प्रत्यक्षतः परेण प्रतीयन्ते तथा नैर्मल्यादयो गुणा अपि । जातमात्रस्यापि नैर्मल्यादिनेन्द्रियप्रतीतेनल्यादीनां "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274