Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. १ सू. २१] स्याद्वादरत्नाकरसहितः
२५१ प्रमाणादुत्तरस्य प्रामाण्यनिश्चये परस्पराश्रयः । अथ भिन्नविषयमिति द्वितीयः पक्षः । सोऽपि न श्रेयान् । एकस्तम्भज्ञानं प्रति स्तम्भाम्तरज्ञानस्य प्रामाण्यव्यवस्थापकत्वापत्तेः । तन्न समानजातीयं संवादकज्ञानमुपपद्यते । नापि भिन्नजातीयम् । तद्धि किमर्थक्रियाज्ञानमुतान्यत् । न तावदन्यत् , घटज्ञानात्पटज्ञाने प्रामाण्यनिश्चयप्रसङ्गात् । नाप्यर्थक्रियाज्ञानम् । प्रथमस्य प्रवर्तकज्ञानस्य प्रामाण्यनिश्चयाभावे प्रवृत्त्याद्यभावेनार्थक्रियाज्ञानस्यैवाघटनात् । निश्चितप्रामाण्यात्तु प्रवर्तकज्ञानात्प्रवृत्तौ दुर्निवारश्चक्रकावतारः । तथाहि प्रवर्तकज्ञानप्रामाण्यनिश्चयात्प्रवृत्तिः, प्रवृत्तेरर्थक्रियाज्ञानं, अर्थक्रियाज्ञानाच्च प्रवर्तकज्ञानप्रामाण्यनिश्चय इति । कथं चार्थक्रियाज्ञानस्यापि प्रामाण्यनिश्चयः, १० अन्यस्मादर्थक्रियाज्ञानादिति चेत् , तर्हि अनवस्था । प्रवर्तकज्ञानाचेत् , अन्योन्याश्रयः । अर्थक्रियाज्ञानस्य स्वतः प्रामाण्यनिश्चयाभ्युपगमे च प्रवर्तकज्ञानस्य तथाभावे किंकृतः प्रद्वेषः । यदाह भट्टः, " यथैव प्रथमं ज्ञानं तत्संवादमपेक्षते । संवादेनापि संवादः परो मृग्यस्तथैव हि ॥ १ ॥ संवादस्याथ पूर्वेण संवादित्वात्प्रमाणता। . अन्योन्याश्रयभावेन प्रामाण्यं न प्रकल्प्यते ॥२॥ कस्यचित्तु १५ यदीष्येत स्वत एव प्रमाणता । प्रथमस्थ तथाभावे प्रद्वेषः केन हेतुना ॥३॥” इति । तदेवं परतः पक्षस्यानुपपद्यमानत्वात्स्वत. एव प्रामाण्यग्रहणमुपपद्यत इति । तदेतदखिलमलीकम् । तथाहि यत्तावदुक्तं प्रामाण्यं स्वज्ञप्तौ कारणगुणज्ञानं बाधकामावज्ञानं वा संवादकज्ञानं वा परमपेक्षेतेत्यादि । तत्र संवादकज्ञानमपेक्षत २० इत्याचक्ष्महे । कारणगुणज्ञानबाधकामावज्ञानयोरपि च संवादकज्ञानरूपत्वं प्रतिपद्यामहे । यादृशोऽर्थः पूर्वस्मिन् विज्ञाने प्रथापथमवतीर्णस्तादृश एवासौ येन विज्ञानेन व्यवस्थाप्यते तत्संवादकमित्येतावन्मानं हि तल्लक्षणमाचचक्षिरे धीराः । यत्तु कारणगुणज्ञाननिराकरणाय न्यगादि । तद्धि नेन्द्रियजं सम्भवतीत्यादि । ततावदेवमेव । यत्पुन- २५५
"Aho Shrut Gyanam"

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274