Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. १ सू० २१]
स्याद्वादरत्नाकर सहितः
मस्तशीतावकाशं कमपि साग्निप्रदेशविशेषमुपसर्पन्नन्तराले ज्वलज्ज्वलनाभ्यासे सति तस्योष्णस्पर्शमसाधारणमवधार्य तद्रूपस्पर्शयोरविनाभावं वि भाव्य च कालान्तरे दूरात्पुनः पावकरूपविलोकने सति समानोऽयं रूपप्रतिभासोऽभिमतार्थक्रियासाधन एवंविधरूपप्रतिभासत्वात् पूर्वोत्पन्नैवंविधरूपप्रतिभासवदित्यनुमानात्प्रवर्त्तकस्य साधन निर्भासिज्ञानस्य प्रामाण्यं ५ निश्चित्य प्रवर्त्तत्य इति । कृषीवलादयोऽपि हि अनभ्यस्ते बीजादिगोचरे प्रथमं निहितमधुरनीरावसिक्तसुकुमारमृदि शरावादौ कतिपयशाल्यादिबीजकणगणवपनादिना बीजाबीजे निर्द्धार्य पश्चाद्दष्टसाधर्म्येणानुमानात्परिशिष्टस्य बीजाबीजतया निश्चितस्योपादानाय हानाय च यतन्ते । तदनन्तरं पुनरभ्यस्ते बीजादिगोचरे परिदृष्टसाधर्म्यादिलिङ्ग- १० निरपेक्षा एव निःशङ्कं कीनांशाः केदारेषु बीजावपनाय प्रवर्तन्ते । यत्तु कथं चार्थक्रियाज्ञानस्यापि प्रामाण्यनिश्चय इत्यादिनाऽर्थक्रियाज्ञानलक्षणसंवादकज्ञानपक्षेऽनवस्थाऽन्योन्याश्रयदूषणमभाणि । तदप्युक्तिमात्रम् । अभ्यासदशायां संवादकस्य स्वत एवानभ्यासदशायां तु संवादकान्तरादेव प्रामाण्यप्रसिद्धेः । न च संवादकान्तरापेक्षायामनवस्था । संवा- १५ दकान्तरैरनभ्यासदशापन्नैरेव भवितव्यमिति नियमाभावात् ।
वा
स्वत एव प्रामाण्यज्ञप्तिरिति
मी स्वत एव प्रमाण्यज्ञप्तिं प्राजिज्ञपयस्तेषामात्मनिबन्धना वा आत्मीयनिबन्धना प्रामाण्यज्ञप्तिरभिप्रेता ऐकान्तिकमस्य भवेत् । स्वशब्देऽत्रार्थद्वयस्यैव सम्भावनाभूमिखण्डनम् । त्वात् । नाद्यः पक्षः श्रेयान् । बुद्धेरस्वसंविदि- २० तत्वेन तद्धर्मस्य प्रामाण्यस्याप्यस्वसंविदितत्वात् । अथ द्वितीयपक्षाङ्गीकारेण येनैव प्रमाणेन प्रमाणत्वसम्मतं ज्ञानं निश्चीयते तेनैव तदाश्रितं प्रामाण्यम पीत्युच्यते । ननु किं प्रमाणं प्रमाणत्वसम्भतज्ञानस्य निश्चायकमिति । अर्थापत्तिरिति चेत् । मैवम् । तदुपस्थापकस्यार्थस्याभावात् । अर्थप्राकट्यमर्थापत्त्युपस्थापकोऽर्थोऽस्तीति चेत् । तत्किं यथार्थ१ कीनाशा: - कृषीवलाः ।
"Aho Shrut Gyanam"
२५५
२५

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274