Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 270
________________ परि. १ स. २१] स्याद्वादरत्नाकरसहितः ३५७ विश्वारामाभिरामः सुचरितकुसुमच्छन्नशाखप्रशाखः केषाञ्चित्प्राणभाजां सरणिमनुसरनेत्रयोः पुण्ययोगात् ।। स्निग्धच्छायाकलापः कुशलशतमणीमञ्जरीजालमञ्जु र्जीयात्सेव्यः सुराणां जगति सुरतरुःसुव्रतः श्रीजिनेन्द्रः॥२६२॥ सम्प्राप्ताः स्मृतिगोचरं सुमनसामद्यापि येषां गुणाः सर्वाङ्गीणमपि क्षणेन पुलकालङ्कारमातन्वते ।। येऽस्मिञ्जङ्गमधर्ममूर्त्तय इव क्षोणीतले रेजिरे श्रीमन्तो मुनिचन्द्रसूरिगुरवस्ते सन्तु विघ्नापहाः ॥ २६३ ।। किं दुष्करं भवतु तत्र मम प्रबन्धे यत्रातिनिर्मलमतिः सतताभियुक्तः ॥ भद्रेश्वरः प्रवरयुक्तिसुधाप्रवाहो _रत्नप्रभश्च भजते सहकारिभावम् ॥ २६४ ॥ २१ ॥ इति सकलतार्किकवैयाकरणसैद्धान्तिकसहृदयकविचक्रचक्रवर्तिचारिअचूडामणिसुगृहीतनामधेयश्वेताम्बराधिपश्रीमन्मुनिचन्द्रसूरिचरणसरसीरुहोपजीविना श्रीदेवाचार्येण विरचिते स्याद्वादरत्नाकरे प्रमाणनयत- १५ वालोकालङ्कारे प्रमाणस्वरूपनिर्णयो नाम प्रथमः परिच्छेदः।। १ ।। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274