Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. १ सू. २१ स्याद्वादरत्नाकरसहितः
२५३. त्वेकसन्तानप्रभवं संवादकं यथा रथाङ्गमिथुनादेकतरदर्शनस्यान्यतरदर्शनम् । यत्तक्तमत्र पक्षे एकस्तम्भज्ञानं प्रतिस्तम्भान्तरज्ञानस्य प्रामाण्यव्यवस्थापकत्वापत्तेरिति । तत्रापि यदि तद्विषययोरविनाभावस्तदा भवत्येव संवादकत्वम् । न खलु निखिलं भिन्नविषयं संवेदनं संवादकमिति ब्रूमः । किं तर्हि यत्र पूर्वोत्तरज्ञानगोचरयोरविनाभावस्त- ५ त्रैव भिन्नविषयत्वेऽपि ज्ञानयोः संवायसंवादकभाव इति । यच्च भिन्नजातीयसंवादकज्ञानपक्षे विकल्पितम्, तद्धि किमर्थक्रियाज्ञानमुतान्यदिति । तत्रापि नः पक्षद्वयमपि सम्मतमेव । तत्रार्थक्रियाज्ञानं प्रथमस्य प्रवर्तकजलज्ञानस्येत्यादिना प्रागभिहितम् । अर्थक्रियाज्ञानादन्यत्तु भिन्नजातीयं संवादकं यथा एकसहकारफलादिवर्तिनां रूपादी- १० नामविप्वग्भावलक्षणसम्बन्धिनां परस्परं व्यभिचाराभावाद्रसादिज्ञानमाशंकितविषयाभावस्य प्रामाण्यनिश्चायकम् । यत्पुनरत्र पक्षे वटज्ञानात्पटज्ञाने प्रामाण्यनिश्चयप्रसंगादिति जल्पितम् । तत्केवलं वाचालताचापलम् । अविनाभावो हि संवाद्यसंवादकभावनिबन्धनं नान्यदित्युक्तत्वात् । यत्त्वर्थक्रियाज्ञानपक्षे प्रथमस्य प्रवर्तकज्ञानस्य प्रामाण्यनिश्चयाभावे प्रवृत्त्याराभावेनार्थक्रियाज्ञानस्यैवाघटनादित्युद्धोषितम् । तदपि ज्ञानन्यायनिराकृतम् । न खलु सर्वत्र प्रवर्तकज्ञानस्य प्रामाण्यानिश्चये सति प्रवृत्तिरिति नः पक्षः। किं तीनभ्यासदशायां प्रामाण्यसन्देहादपि प्रवृत्तिरिति । न चात्रेदं प्रतिपादनीयम् । यदि संशयादपि प्रवृत्तिः सम्पन्ना । तयर्थक्रियाज्ञानात्प्रामाण्यनिश्चयेन किं प्रयोजनम् । प्रवृत्त्यर्थं २० हि प्रामाण्यनिश्चयः प्राय॑ते सा च सन्देहादपि जातेति । यतस्तत्र प्रामाण्यानिश्चयस्य तद्विषयसंशयापगम एव प्रयोजनं सुप्रतीतमिति किं प्रयोजनान्तरनिरूपणप्रयासेन । ननु प्रामाण्यगोचरसंशयापगमस्यापि किं प्रयोजनमिति चेत् । स्थाने प्रश्नः, किन्तु संशयापगमस्याभ्यासलक्षणमेव प्रयोजनं किं न परामृशसि । बदा खेकदाऽर्थक्रियाज्ञानात्प्रामाण्यं २५
१ 'ज्ञान' इति नास्ति भः पुस्तके !
"Aho Shrut Gyanam"

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274