Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. २१ नापि लिङ्ग लिङ्गस्यैवाभावादित्यादि । तदसंगतम् । उपलब्ध्याख्यकार्यपरिशुद्धिलक्षणस्य गुणग्रहणप्रवणस्य लिङ्गस्य सम्भवात् । यत्पुनस्तत्प्रतिक्षेपाय प्रतिपादितम् । अप्रतिपन्नायास्तस्यास्तद्गमकत्वानुपपत्तेरित्यादि । तदपेशलम् । न खलु कारणगुणज्ञानादेवोपलब्ध्याख्यकार्यपरिशुद्धिबुद्धिर्भवतीति नः पक्षः । अभ्यासदशायां स्वतोऽनभ्यासदशायां तु कारणगुणज्ञानवज्ज्ञानान्तरादपि संवादकात्तदु. पपत्तेः । एतेन बाधकामावज्ञानपक्षप्रातक्षेपोऽपि प्रतिक्षिप्तः । यत्तु विकल्पितं संवादकज्ञानं हि समानजातीयं भिन्नजातीयं वा भवेदिति । तत्रोभयमपि स्वीक्रियत एव । क्वचित्खलु समानजातीयं संवादकज्ञानं भवति । यथा देवदत्तस्य प्रथमं घटज्ञाने प्रवृत्ते यज्ञदत्तस्यापि तस्मिन्नेव घटे घटज्ञानम् । एतेन देवदत्तघटज्ञाने यज्ञदत्तघटज्ञानस्यापि संवादकत्वप्रसक्तरिति प्रत्युक्तम् । इष्टस्यैवापादनात् । कचित्तु भिन्नजातीयमपि संवादकज्ञानं भवति । यथा प्रथमस्य प्रवर्तकजलज्ञान
स्योत्तरकालभाविनानपानावगाहनाद्यर्थक्रियाज्ञानम् । यत्तु समानजातीय१५ मपि किमेकसन्तानप्रभवं भिन्नसन्तानप्रभवं वेत्युक्तम् । तत्रोभयमप्यभ्यु
पगम्यत एव । भवति ।कसन्तानप्रभवमन्धकारकलुषितालोकप्रभवस्य कुम्भज्ञानस्योत्तरकालभाविनस्तिमिरालोकप्रभवं तस्मिन्नेव कुम्भे कुम्भज्ञानम् । भिन्नसन्तानप्रभवं तु समानजातीयं संवादकज्ञानं यदिदानीमेव प्रथममुपदर्शितम् । यत्पुनरेकसन्तानप्रभवपक्षे समाख्यातम् एकसन्तानप्रभवमप्यभिन्नविषयं भिन्नविषयं वेति । तत्राप्युभयमस्माकमभिमतमेव । तत्राभिन्न विषयमेकसन्तानप्रभवं दर्शितमेव । यच्चात्र पक्षे दूषणं प्रथमपक्षे संवाद्यसंवादकभावाभावो विशेषाभावादिति । तदवद्यम् । विशेषाभावस्यासिद्धेः । संवाद्यं हि पूर्वसंवेदनं मन्दसाम
ग्रीसमुत्पाद्यम्, संवादकं पुनरुत्तरकालभावि प्रबलसामग्रीजन्यमिति २५ कथमनयोर्विशेषाभावः सिद्धयेत् । अभ्यस्तसद्विषयत्वेन च संवादकस्य
स्वादकान्तरानपेक्षत्वादनवस्थापि पूर्वोक्तात्र न सम्भवति । भिन्नविषयं
२०
"Aho Shrut Gyanam"

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274