Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. १ सू. २१] स्याद्वादरत्नाकरसहितः मुणरूपत्वाभाव इत्युच्यते । तर्हि जातितैमिरिकस्य जातमात्रस्यापि तिमिरादिपरिकरितेन्द्रियप्रतीतेरिन्द्रियस्वरूपातिरिक्ततिमिरादिदोषाणामध्यभावः कथं न स्यात् । कथं चैवं रूपादीनामपि कुम्भादिगुणस्वभावता । उत्पत्तेरारभ्य कुम्भे तेषां प्रतीयमानत्वाविशेषात् । ततः परचक्षुर्गोलकादौ प्रत्यक्षतः परेण प्रतीयमानत्वात् काचकामलादिदोषाणां यथा ५ सत्त्वमङ्गीक्रियते नैर्मल्यादिगुणानामप्यङ्गीकर्त्तव्यम् । अन्यथा तु--
सुव्यक्तं गुणमात्सर्यमकारणमिदं तव ।।
दोषैकपक्षपातित्वं किं ब्रूमस्तत्सखेऽधुना ।। २२० । अपि च ।
प्रत्यक्षानुपलभ्यत्वाद्गुणाभावो यदीप्यते ॥ बुद्धयभावस्तथा प्राप्तस्तत एव तव ध्रुवम् ॥ २५१ ।। बद्धयभावेऽथ सर्वस्य प्रमाणस्याप्यभावतः । कथं स्वपक्षसिद्धिस्ते निःसन्देहविपर्यया ॥ २५२ ।। परपक्षप्रतिक्षेपः कथं वा निष्प्रमाणकः ॥ सिद्धिक्षेपौ च कर्त्तव्यौ स्वपक्षपरपक्षयोः ॥ २५३ ॥ १५ प्रमाणमन्तरेणापि क्रियते यदि तौ त्वया ।
सुष्टु प्रामाणिकत्वं स्यादात्मनो व्यञ्जितं तदा ॥ २५४ ॥ ... तन्न प्रत्यक्षानुपलम्भमात्रेण गुणानामभावः कर्तुं युक्तः । यदप्यवादि,न शेमुषीलिङ्गकृतापीत्यादि । तदप्यसिद्धम् । गुणग्रहणप्रवणस्यानुमानस्य सद्भावात् । तथाहि। विवादाध्यासितेषु ज्ञानहेतुषु गुणाः सन्ति सम्यग्ज्ञान- २० जनकत्वान्यथानुपपत्तः। द्विविधमेव हि कार्य सभ्यगसम्यग् नतु तृतीयम् । तस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धोर्नर्विशेषस्य सामान्यम्य शशविषाणकल्पत्वाच्च । तत्राद्यं गुणवत्कारणात् । द्वितीयं तु दोषवत्कारणादुपजायते । उक्तकारणातिरिक्तं तु कार्यवत्कारणमपि नोपलभामह इति सम्यग्ज्ञानलक्षणं कार्य गुणवत्कारणादेवोपजायत इति सिद्धम् । २५ १ आजन्मनः तिमिररोगग्रस्तस्य ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274