Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 260
________________ २४७ परि. १ सू. २१] स्याद्वादरत्नाकरसहितः २४७ इदानीं तृतीयकार्याभावाद्यथार्थोपलब्धिः स्वरूपावस्थितेभ्य एब कारणेभ्योऽवकल्पत इति न गुणकल्पनायै सा प्रभवतीति । तदनुपपन्नम् । उक्तन्यायेने गुणदोषविरहितस्य तृतीयकारणस्यासम्भवात् । यदपि प्रत्यपादि । नैर्मल्यादिकं हि नयनादीन्द्रियाणां स्वरूपं नैमल्यादिकं नयनादीनां न पुनः स्वरूपातिरिक्तो गुण इति । तत्रेदं ५ स्वरूपं न ततोऽतिरिक्तो पर्यनुयुज्यते । कुतो नैर्मल्यादेर्नयनादीन्द्रयस्वगुण इति मीमांसकम तस्य खण्डनम् । रूपतासिद्धिः । नयनादिभ्यो भेदेन तस्यानुपलभ्यमानत्वादिति चेत् । तदप्यसमीचीनम् । काचकामलादिदोषाणामपि लोचनादिभ्यः पार्थक्येनानवलोक्यमानानां तत्स्वरूपत्वप्रसक्तेः । किं च नैर्मल्यादिकं नयनादीन्द्रियाणां स्वरूपमित्यत्र स्वरूपशब्दस्य १० कः सम्मतोऽर्थः । तादात्म्यं तन्मात्रत्वं वा । तत्राद्यविकल्पे नैर्मल्यादेर्गुणत्वानिषेधस्तादात्म्यस्य गुणत्वाविरोधित्वात् । इतरथा रूपादेरपि गुणत्वाभावः स्यात् । द्वितीयविकल्पस्त्वयुक्तः । चक्षुरादावनुवर्तमानेऽपि नैर्मल्यादेर्निवर्तमानतया तन्मात्रत्वानुपपत्तेः । प्रयोगश्चात्र यस्मिन्ननुवर्तमानेऽपि यन्निवर्त्तते न तत्तन्मानं यथानुवर्त्तमानेऽपि पटे १५ नील्यादिद्रव्यसंयोगान्निवर्तमानः शुक्लादिर्गुणः । अनुवर्तमानेऽपि चक्षुरादौ निवर्तते काचकामलिनः कुपितादेर्वा नैर्मल्यादिकमिति । किंच कथं गुणानभ्युपगमे तस्माद्गुणेभ्यो दोषाणामभाव इत्यादि पदे पदे गुणसद्भावावेदको वार्तिककारोद्गारः शोभेत । यदप्यमाणि नैर्मल्यव्यपदेशस्तु लोचनादेर्दोषाभावनिबन्धन इत्यादि । तदपि मनः- २० पीडाकरम् । दोषाभावस्य प्रतियोगिपदार्थस्वभावत्वात् । तुच्छस्वभावत्वे यस्य तुरङ्गशृङ्गस्येव कार्यत्वधर्माधारत्वविरोधः । न चाऽसिद्धमस्य कार्यत्वलक्षणधर्माधिकरणत्वम् । अञ्जनादेश्चक्षुरादौ क्रियमाणत्वप्रतीतेः । ततो दोषाणां प्रतियोगिनो ये गुणास्तत्स्वरूप एव दोषाभावः । लोकप्रती१ . नयेन ' इति प. पुस्तके पाठः । २ 'वा' इति प. म. पुस्तकयोः पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274