Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 256
________________ परि. १ सू. २१] स्याद्वादरत्नाकरसहितः पनतमप्रामाण्यमिति दोषाभावेऽपि तत्सम्भवन्न दोषहेतुकमेवेति वक्तुं युक्तमित्येवं विपर्ययस्यापि कल्पयितुं शक्यत्वादिति । तथा प्रामाण्यं विज्ञानमात्रोत्पादककारणकलापातिरिक्तकारकोत्पाद्यं विज्ञानमात्रानुवृतावपि व्यावर्त्तमानत्वाद्यदित्थं तदित्थं सम्यग्ज्ञानेऽपि विज्ञानमात्रानुवृत्तावपि व्यावर्त्तमानमप्रामाण्यम् । तथा चेदं तस्मात्तथा । न चात्रासिद्धो हेतुः । मिथ्याज्ञाने विज्ञानमात्रानुवृत्तावपि प्रामाण्यव्यावृत्तेर्वादिप्रतिवादिनोः प्रतीतत्वात् । नापि विरुद्धः । सपक्षे सद्भावात् । पदार्थसिद्धिस्ततश्च ते' वाजिविषाणकल्पा । ननु यथार्थोपलब्धिलक्षणलिङ्गसमुत्थमनुमानं तन्निश्चायकमस्त्येवेति चेत् । तन्न युक्तम् । यतो यथार्थोपलब्धिलक्षण लिङ्गसमुत्थानुमानान्निर्दोषाणामेव कारणानां निश्चयो नतु सगुणानाम् । यदि हि यथार्थत्वायथार्थत्वरूपद्वयरहितमेव किञ्चिदुपलब्ध्याख्यं कार्यं भवेत्तदा कार्यत्रैविध्यमध्यवसीयेत यदुत यथार्थोपत्रेर्गुणवन्ति कारकाणि अयथार्थोपलब्धेर्दोषकलुषितानि । उभयरूपरहितायाः पुनरुपलब्धेः स्वरूपावस्थितान्येवति । न वेवमस्ति । द्वेधा हीयमुपलब्धिरनुभूयते, यथार्था चायथार्था च । १५ त्रायथार्थोपलब्धिस्तावत् दुष्टकारणजन्यैव संबेधते । यथाहि दुष्टकारणकलापाद्दः शिक्षितकुलालादेः कुटिलकलशादिकार्यमवलोक्यते । था तिमिरादिदोषदुष्टान्नयनादिकारणकदम्बकात् कुमुदबान्धवद्वितयत्ययादिका अयथार्थोपलब्धिरपि । अत एवोत्पत्तौ दोषापेक्षदप्रामाण्यं परत एवेति कथ्यते । तदित्थमयथार्थोपलब्धौ दुष्टकारण- २० न्यत्वेन प्रसिद्धायामिदानीं तृतीयकार्याभावाद्यथार्थोपलब्धि: स्वरूपास्थितेभ्य एव कारणेभ्योऽवकल्पते इति न गुणकल्पनायै सा भवति । न च स्वरूपावस्थितानि कारणानि कार्यजन्मन्युदासत एव न यथार्थोपलब्धिजननेऽमीषां गुणसहकारिता परिकल्प्यत इति । १ अत्र स्वमतप्रतिपादकोऽनन्तरञ्च मीमांसकाक्षेपोलको वाक्यसन्दर्भः सादितादर्शेषु पतित इति विज्ञायते । २ 'तव ' इति प. म. पुस्तकयोः पाठः । " Aho Shrut Gyanam". २४३ ५. १०

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274