Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 255
________________ २४२ प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. २१ १० स्त इति चेत्, न । प्रमाण्य प्रति गुणानामपि तयोस्तुल्यत्वात् । पौरुषेयविषयेयमस्तु व्यवस्था अपौरुषेये तु दोषनिवृत्त्यैव प्रामाण्यमिति चेत्, न । गुणनिवृत्त्याऽप्रामाण्यस्यापि सम्भवात् । तस्या अप्रामाण्यं प्रति सामर्थ्य नोपलब्धमिति चेत्, दोषनिवृत्तेः प्रामाण्यं प्रति क सामर्थ्यमुपलब्धम् । लोकवशादिति चेत् । तदितरत्रापि तुल्यम् । लोकवचसामप्रामाण्ये दोषा एव कारणं गुणनिवृत्तिस्त्ववर्जनीयसन्निधिरिति चेत् । प्रामाण्यं प्रति गुणेष्वपि तुल्यमेतत् । गुणानां दोषोत्सारणप्रयुक्तोऽसाविति चेत्, दोषाणाषि गुणोत्सारणप्रयुक्तोऽसावित्यस्तु । अथैवं वेदानामपौरुषेयतया गुणदोषयोरुभयोरप्यभावे तद्धेतुकयोः प्रामाण्याप्रामाण्ययोरभावात्तृतीयस्य च राशेरसम्भवान्निःस्वमावत्वं भवेदिति चेत् । किं न खलु भोः खलस्वभावमात्मानं त्वमुपालभसे। यः किलामीषामकर्तकत्वं पूत्करोषि । तस्माद्यथा यथाक्रमं द्वेषाभावस्य रागाभावस्य वाऽविनाभावेऽपि प्रवृत्तिनिवृत्तिप्रयत्नयो राग द्वेषं च नियमेनानुविदधतो रागद्वेषकारणकत्वं न तु निवृत्तिप्रयत्नो द्वेषरूपभाव१५ हेतुकः । प्रवृत्तिप्रयत्नस्तु सत्यपि रागानुविधाने द्वेषाभावमाननिबन्धन इति विभागो युज्यते । सत्यपि द्वेषानुविधाने निवृत्तियत्नस्य रागाभावमानहेतुकत्वापत्तेः । तथा गुणाभावस्य दोषाभावस्य वाऽविनाभावेऽप्यप्रामाण्यप्रामाण्ययोर्दोषान् गुणांश्च नियमेनानुविदधतोर्दोषगुणकारण त्वमनुसरणीयम् । न त्वप्रामाण्यं दोषहेतुकं प्रामाण्यं सत्यपि गुणानु२० विधाने दोषाभावमानहेतुकम् । दोषान्नियमेनानुविदधतोऽप्यप्रामाण्यस्य गुणाभावमातहेतुकत्वप्रसक्तेरिति । अथ वेदानामपौरुषेयत्वेनापेतवक्तदोषत्वं तथा च तद्धेतुकस्याप्रामाण्यस्याप्यभावात्ततः प्रविशति स्वत एव तेषु प्रामाण्यम् । एवं च गुणाभावेऽपि सम्भवत्प्रामाण्यं न गुणहे तुकमेवेति वक्तुं युज्यत एवेति चेत् । व्याहतमेतत् । तत एवैतेषाम२५ पेतवक्तगुणत्वं तथा च तद्धेतुकस्य प्रामाण्यस्याप्यभावस्ततश्चाप्रयत्नो १ 'एवैतत्' इति प. म. पुस्तकयोः पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274