Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. १ सू. २१] स्याद्वादरत्नाकरसहितः
२४१ प्रामाण्यनिश्चयः । संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते । अनभ्यासदशायां तु तदपेक्षया जायमानोऽसौ परत इति । उत्पत्तौ परतः प्रामाण्ये किं प्रमाणमिति चेत् , उच्यते । प्रामाण्यं ज्ञानहेत्वतिरिक्तहेत्वधीनं ज्ञानत्वे सति कार्यत्वादप्रामाण्यवत् । यदि पुनः प्रामाण्यं ज्ञानहेतुमात्रार्धानं भवेत् । तदा ५ निर्विवादाप्रामाण्यं पार्वणेन्दुद्वयसंवेदनमपि प्रमाणतां प्रतिपद्येत । न खलु तत्र ज्ञानहेतुर्न विद्यते । तदनुत्पत्तिप्रसङ्गादसंवेदनत्वप्रसङ्गाच्च ।
अथ तत्र ज्ञानहेतुसम्भवेऽप्यतिरिक्तदोषानुप्रवेशादप्रामाण्यमिति ज्ञानसामान्यकारणव्यति चेत् । एवं तार्ह दोषाभावमधिकमासाद्य प्रामारिक्तो दोषाभाव एव प्रा- प्यमुपजायते, नियमेन तदपेक्षणात्। अस्तु दोषा- १० माण्ये हेतुन तु भावरूपः कश्चित् गुण इति पराभि भावोऽधिको भावस्तु नेप्यत इति चेत. भवेद
मतस्य खण्डनम् । प्येवं यदि नियमेन दोषैर्भावैरेव भवितव्यम् । न त्वेवम् । विशेषादर्शनादेरभावस्यापि दोषत्वात्। तस्य ह्यदोषत्वे कथं ततः संशयविपर्ययौ स्याताम् । ततो विशेषादर्शनाभावो भावस्वभाव एवेति स कथं नेष्यते। तथाऽनित्यः शब्दः प्रमेयत्वादि- १५ त्येवमादौ प्रमेयत्वादिलिङ्गगतानां विपर्यासादिदोषाणां भावस्वभावानामप्यभावे प्रामाण्यानुपपत्तेः । न खलु प्रमेयत्वं स्वरूपमात्रेण निश्चितमिति विपर्यासादिदोषाभावसम्भवाच्छब्दस्यानित्यत्वमनुमापयितुमलम्। अथानैकान्तिकत्वादोषाभावस्तत्रासिद्ध इति चेत्, ननु कुतोऽनैकान्तिकत्वन्, नियमाभावादिति चेत्, अयत्नसम्पन्नसमीहितार्थास्तहि २० संबृत्ताः स्मः । दोषाभावातिरिक्तस्य भावस्वभावस्य नियमस्य प्रामाण्यहेतोस्त्वयैवैवं प्रसाधनात् । अथान्यत्र यथा तथाऽस्तु शब्दे तु विप्रलिप्सादिदोषाभावे वक्तगुणापेक्षा प्रमाण्यस्य नास्तीति चेत्, तदननुगुणम् । वक्तृगुणाभावे तत्राप्रामाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि सुवचत्वात् । अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेको २५
१ . उपजायेत ' इति भ. म. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274