Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 249
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १८ त्पन्नबुद्धिवृत्तिश्च प्रकृतिः प्रथमसृष्टिकाल इति । अथोऽदृष्टात्प्रथमो बुद्धिरूपः परिणामः प्रकृतेः । तदप्ययुक्तम् । यतस्तस्मात् परिणामाभ्युपगमे दुर्वारश्चक्रकावतारः । सिद्धे हि चिच्छायाछुरितबुद्धिवृत्तिसद्भावे सुखसाधनप्रतिपत्तिपूर्वकमदृष्टसाधनानुष्ठानं तदनुष्ठानाददृष्टस्योत्पत्तौ च प्रथमसृष्टिकाले तथाविधबुद्धिवृत्तिसद्भावसिद्धिरिति । यदप्युक्तमेकतः संक्रान्तविषयाकारान्यतश्च संक्रान्तचिच्छाया सीति । तत्र संक्रान्तविषयाकारत्वं बुद्धेर्बुद्धिरेवावगच्छत्यात्मा वा । न तावद्भुद्धिरेव । स्वयं स्वरूपस्याप्रतिपत्तावह संक्रान्तविषयाकारेति प्रतिपत्तेरनुपपत्तेः । तथा तत्प्रतिपत्तौ पुनः सिद्धं बुद्धेः स्वव्यवसायत्वम् । आत्माऽपि १० बुद्धयर्थावप्रतिपद्य संक्रान्तविषयाकारत्वं बुद्धौ प्रतिपद्यते प्रतिपद्य वा । नाद्यः पक्षः । अर्थस्य बुद्धेश्चाप्रतिपत्तौ तत्प्रतिपत्तेरघटनात् । द्वयोर्हि प्रतिपत्तावयमत्र संक्रान्त इति प्रतिपत्तिर्युक्ता । इदं वदनमत्र दर्पणे संक्रान्तमिति प्रतिपत्तिवत् । अथ प्रतिपद्येति पक्षः, तार्ह बुद्धयर्थावात्मा किं स्वतः प्रतिपद्यते बुद्धयन्तरेण वा । स्वतश्चेत्, तर्हि बुद्धिकल्पनावैयर्थ्यम् । क्रियायाः करणमन्तरेणायोगात्तत्कल्पनायाः सार्थकत्वमिति चेत्, तर्हि कथमात्मावुद्धयाँ स्वतः प्रतिपद्यत इति प्रतिजानीषे । बुद्धयन्तरेण तत्प्रतिपत्तौ वाऽनवस्था । न च प्राक्तनबुद्धिकाले बुद्धयन्तरमस्ति । ज्ञानयोगपद्यानभ्युपगमात् । अतः कथं बुद्धयन्तरेणापि प्राक्तनबुद्धिकाले स्वयमसता बुद्धयर्थप्रतिपत्तिरात्मनः स्यात् । चिच्छायासंक्रान्तिरपि बुद्धौ पुरुषस्य प्रतिबिम्बनमुच्यते यथा वदनसंक्रान्तिदर्पणे वेदनस्य । न च व्यापिनः पुरुषस्य क्वचिप्रतिबिम्बनं युज्यते । तथा हि यद् व्यापकं न तत् कचित्प्रतिबिम्बति यथा व्योम, व्यापकश्चात्मेति । प्रतिबिम्बने वात्मनो भवदभिप्रायेणा स्मादृशामसंवेद्यपर्वणि स्थितत्वान्न प्रतिबिम्बप्रतिपत्तिः स्यात् । तथाहि २५ यदसंवेद्यपर्वणि स्थितं न तस्य काचित् प्रतिबिम्बग्रहणं यथोमयसम्प्रति पन्नस्य कस्यचिदत्यन्तसूक्ष्मस्य पदार्थस्य असंवेद्यपर्वणि स्थितस्य "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274