Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 250
________________ परि. १ सू. १८] स्याद्वादरत्नाकरसहितः भवदभिप्रायेणस्मादृशामात्मेति । तद्ग्रहणे वा मुखदर्पणयोरिव प्रकृतिपृरुषयोर्विवेकेनावधारणात् तन्निमित्तः सर्वस्य सर्वदा मोक्ष: स्यात् । ततो न कश्चिच्छास्त्रश्रवणमननादिषु प्रयतेत । यच्चोक्तं सतोऽप्यनयोविवेकस्य संसर्गविशेषवशाद्विपलब्धेन प्रमात्रा प्रत्येतुमशक्तेरयोगोलकज्वलनविशेषवदित्यादि । तदप्युक्तिमात्रम् । अयोगोलक- ५ ज्वलनयोरपि परस्परं भेदाभावात् । अयोगोलकद्रव्यं हि पूर्वाकारपरिहारेण वह्निसन्निधानाद्विशिष्टरूपस्पर्शपर्यायाधिकरणमेकमेवोत्पन्नमनुभूयते । आमाकारपरिहारेण पाकाकाराधिकरणकुम्भद्रव्यवत् । एवं च ययोरित्याधनुमाने प्रतीयमानोऽन्योन्यासम्भविरूपस्पर्शविशेषत्वाख्यो हेतुरसिद्धः । अयोगोलकज्वलनाख्यद्रव्यद्वयस्यैव तदानीमभावात् । १० तस्मात् तप्तायोगोलकवदेकत्वेनानुभूयमानं स्वपरप्रकाशकं बुद्धयुपलब्धिज्ञानमिति पर्यायं चैतन्यतत्त्वमेवाभ्युपेयं न पुनस्तव्यतिरिक्ता तेन संसृष्टा जडस्त्रभावप्रधानकर्मा बुद्धिरिति । यदप्यभिहितं तस्मात् तत्संसर्गादचेतनं चेतनावदिव लिङ्गामिति । तत्र कोऽयं संसर्गशब्दार्थः प्रतिबिम्बनं भोग्यभोक्तभावो वा । न तावत्प्रति- १५ बिम्बनम् । तस्यानन्तरमेव निरस्तत्वात् । नापि भोम्यभोक्तभावः । पुरुषस्य निरभिलाषत्वेन सुखदुःखसंविलक्षणभोगाभावो तस्य भोक्तृतायां प्रकृतेश्च भोग्यताया अनुपपत्तेः । चेतनावदिवेत्यस्य च कोऽर्थः । किमचेतनं चेतनं सम्पद्यत इति तच्छायाच्छुरितं वा । तत्र नाद्यः पक्षः श्रेयान् । अन्यसन्निधानेऽन्यस्यान्यधर्मस्वीकारासम्भवात् । २०. अन्यथाऽकर्तृत्वादिधर्मोपेतात्मसन्निधानात् प्रकृतेरप्यकर्तृत्वादिधर्मस्वीकारः स्यात् । तथा च प्रकृतेमहानित्यादिजगत्प्रपञ्चप्ररूपणा प्रलयमाप्नुयात् । अत्रैवार्थे प्रयोगः । चेतना बुद्धौ तव्यपदेशहेतुर्न भवत्यात्मधर्मत्वाद्यो य आत्मधर्मः स सोऽन्यत्र तयपदेशहेतुर्न भवति यथा प्रकृतावकर्तृत्वादिरात्मधर्मश्च चेतनेति । अथ तच्छायाच्छुरित- २५. मिति द्वितीयपक्षः चेतनासन्निधाने हि बुद्धिस्तया छुरिता भवतीति । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274